प्रोन्मुच्येतापि जीवितम्, संदिग्धोऽप्यस्य समागमो यदि स्यात् । भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः । कथं च तादृशानाम् अप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः । अतो निःसंशयम् असौ उपजातकारुण्यो महात्मा पुनः प्रत्युजीवनार्थमेव एनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाश्च कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्क्यते जीवितप्रदानात् ऋते । न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि — अर्जुनमश्वमेधतुरगानुसारिणम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नाम नागकन्यका सोच्छासमकरोत् । अभिमन्युतनयं च परीक्षितम् अश्वत्थामास्त्रपावकपरिप्लुष्टम् उदरादुपरतमेव निर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून् प्रापितवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि किं क्रियते । क उपालभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छ्वसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि न क्षमन्ते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि । आयतस्वभावानि च दुःखानि । तथा हि — कथमप्येकस्मिञ्जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथम् अतिगहनमवतीर्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम् ” इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य ताम्, पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेन अनिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् ॥
॥ इति प्राणधारणे प्रेरणा ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.