चन्द्रापीडस्तु प्रथममेव तस्या रूपेण, विनयेन, दाक्षिण्येन, मधुरालापतया, निःसङ्गतया च, अतितपस्वितया च, शुचितया च, उपारूढगौरवोऽभूत् । तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहदयः सुतराम् आरोपितप्रीतिरभवत् । आर्द्रीकृतहृदयश्च शनैःशनैरेनामभाषत — “ भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः, स्नेहसदृशं कर्मानुष्ठातुमशक्तः, निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम् ,येन रोदिषि । तदर्थं च जन्मनःप्रभृति समुपचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः । संनिहिता अपि तृणावज्ञयावधीरिता विषयाः । मुक्तानि अतिशयितशुनासीरसमृद्धीनि ऐश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि महत्यात्मा । वनिताजनदुष्करमपि अङ्गीकृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिहतैः परित्यज्यते । महीयसा तु यत्नेन गरीयसि क्लेशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम, तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्गः । मोहविलसितमेतत् । अज्ञानपद्धतिरियम्। रभसाचरितमिदम् । क्षुद्रदृष्टिरेषा। मौर्ख्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जहति, न परित्याज्याः। अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोऽयम् असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु न कमपि गुणमावहति । न तावत्तस्यायं प्रत्युज्जीवनोपायः। न धर्मोपचयकारणम् । न शुभलोकोपार्जनहेतुः । न निरयपातप्रतीकारः । न दर्शनोपायः । न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपरिपाकोपचिताम् असाववशो नीयते कर्मभूमिम् । असावपि आत्मघातिनः केवलमेनसा संयुज्यते । जीवस्तु जलाञ्जलिदानादिना बहूपकरोति उपरतस्यात्मनश्च । मृतस्तु नोभयस्यापि । स्मर तावत् प्रियामेकपत्नीं रतिं भर्तरि मकरकेतौ सकलाबलाजनहृदयहारिणि हरनयनहुताशनदग्धेऽपि अविरहिताम् असुभिः, उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि धृतदेहाम् ॥
॥ इति चन्द्रापीडद्वारा महाश्वेताश्वासनम्, अनुमरणस्य निष्फलत्वम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.