॥ अथ महाश्वेतायाः व्रतग्रहणम् ॥
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा, कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेव चाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, दृष्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखतां स्नेहस्य, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या, तस्य जनस्याश्रुमोक्षमात्रेण किल कृतज्ञतां दर्शयन्ती, तदनुरागकृशमिदमपुण्यबहुलम् अस्तमितलज्जम् अमङ्गलभूतम् अनेकक्लेशायाससहस्रनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती, वन्यैश्च फलमूलवारिभिर्वर्तमाना, त्रिसन्ध्यमत्र सरसि स्नानमुपस्पृशन्ती शरणार्थिनी प्रतिदिनमर्चयन्ती देवमनाथशरणं त्र्यम्बकम्, अस्यामेव गुहायां तरलिकया सह दीर्घशोकमनुभवन्ती चिरमवसम् । साहमेवंविधा पापकारिणी, निर्लक्षणा, निर्लज्जा, निःस्नेहा च, नृशंसा च, गर्हणीया, निष्प्रयोजनोत्पन्ना, निष्फलजीविता, निरवलम्बना, नि:सुखा च । किं मया दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः ” इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनम्, दुर्निवारबाष्पवेगमपारयन्ती निवारयितुम्, उन्मुक्तकण्ठमतिचिरमुचैः प्रारोदीत् ॥
॥ इति महाश्वेतायाः व्रतग्रहणम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.