Loading data... On slow networks this could take a few minutes.
100%
॥ अथ महाश्वेताविलापः ॥
तच्च श्रुत्वा, पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सरस्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया, यथाशक्ति त्वरितैरज्ञातसमविषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पदे पदे, केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा, सरस्तीरसमीपवर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनमधिशयानम्, अतिनिस्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, मनःक्षोभप्रायश्चित्तप्राणायामावस्थितमिव, ' मत्तः प्रियतरस्तवापरो जनो जातः ' इति कुपितेनेव जीवितेन परित्यक्तम्, ' कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयनुगतो जनः ' इति सप्रणयं मामुपालभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तःविष्टैः इव इन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिः धवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनिहितेन वामेन पाणिना ' प्रसीद, प्राणैः समं प्राणसमे, न गन्तव्यम् ' इति हृदयस्थितां मामिव धारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गमिवोद्ग्रीविणा विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कपिञ्जलेन मद्दर्शनात् ' अब्रह्मण्यम् ' इत्यूर्ध्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागमद्राक्षम् ॥
उद्भतमूर्छान्धकारा च पातालतलमिवावतीर्णा, तदा ' क्वाहमगमम्, किमकरवम्, किं व्यलपम् ' इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहस्रसहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना, नोद्गच्छन्ति स्म ; तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी, वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम् । अश्रद्दधाना चासंभावनीयं तत्तस्य मरणम् आत्मनश्च जीवितम्, उत्थाय ' हा हा किमिदमुपनतम् ' इति मुक्तार्तनादा, ' हा अम्ब, हा तात, हा सख्यः ' इति व्यहरन्ती “ हा नाथ जीवितनिबन्धन, आचक्ष्व - क्व मामेकाकिनीमशरणाम् अकरुण, विमुच्य यासि । पृच्छ तरलिका त्वत्कृते मया यानुभूतावस्था । युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदप्यालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि । अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कथय, किमपराद्धम् । किं वा नानुष्ठितं मया । कस्यां वा नाज्ञायामादृतम् । कस्मिन्वा त्वदनुकूले नाभिरतम् । येन कुपितं दासजनमकारणात् परित्यज्य व्रजन्न बिभेषि कौलीनात् । अलीकानुरागप्रतारणकुशलया किं वा मया वामया पापया, याहमद्यापि प्राणिमि । हा, हतास्मि मन्दभागिनी । कथं न त्वं जातः, न विनयः, न बन्धुवर्गः, न परलोकः । धिङ्मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा, कमुपयामि शरणम् । अयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणाम् । भगवति भवितव्यते, कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः, प्रसीद प्रयच्छतास्य प्राणान् । अव वसुन्धरे । सकललोकानुग्रहजननि रजनि, किमर्थं नानुकम्पसे । तात कैलास, शरणागतास्मि ते । दर्शय दयालुताम् ” इत्येतानि चान्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवोन्मत्तेव व्यलपम् ॥
॥ इति महाश्वेताविलापः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.