अथ नातिदूरोद्गतेन चन्दनरसनिर्झरनिकरानिव क्षरता अमृतसागरपूरानिवोगिरता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्नया भुवनान्तराले, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवोद्ध्रियमाणे महीमण्डले, चन्द्रोदयानन्दनिर्भरे विलासमय इव प्रीतिमय इव जीवलोके, प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, रक्तांशुकेन कृतशिरोवगुण्ठना, केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा, तस्मात्प्रासादशिखरादवातरम् ॥
अवतीर्य च प्रमदवनपक्षद्वारेण निर्गत्य तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजोधूसरं चरणयुगलं कैलासतटात् चन्द्रोदयप्रस्रुतचन्द्रकान्तमणिप्रस्रवणे प्रक्षालयन्ती, यस्मिन्प्रदेशे स आस्ते, तस्मिन्नेव चास्य सरसः पश्चिमे तटे, पुरुषस्येव रुदितध्वनि विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृदयेव, किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना ' तरलिके, किमिदम् ' इति सभयमभिदधाना वेपमानगात्रयष्टिः तदभिमुखमतित्वरितमगच्छम् ॥
अथ निशीथप्रभावाद्दूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् “ हा हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । हा किमिदमापतितम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणि दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्रचाण्डाल, कृतार्थोऽसीदानीम् । अपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः; कृतं कर्तव्यम् ; वहेदानी यथेष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहोऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि। हा सत्य, अनाथमसि । हा सुरलोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भवता विना क्षणमप्यवस्थातुमेकाकी। कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्तवेयमतिनिष्ठुरता। कथय त्वत् ऋते क्व गच्छामि । कं याचे । कं शरणमुपैमि । अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः। निरर्थकं जीवितम् । अप्रयोजनं तपः । निःसुखाश्च लोकाः । केन सह परिभ्रमामि | कमालपामि । उत्तिष्ठ, देहि मे प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम ? क्व सा स्मितपूर्वाभिभाषिता ? ” इत्येतानि चान्यानि च विलपन्तं कपिञ्जलमश्रौषम् ॥
॥ इति महाश्वेतायाः अभिसरणम्, कपिञ्जलद्वारा मित्रमरणवर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.