Loading data... On slow networks this could take a few minutes.
100%
॥ अथ महाश्वेताविलापः, चन्द्रापीडः ताम् अग्रेकथनात् निवारयति ॥
उपर्युपरि पतितनयनजलधारानिकरच्छलेन विलीयमानेव, तज्जीवितायेवात्ममरणाय स्पृहयन्ती, करतलेन कपोलयोर्ललाटे अंसयोर्हृदये च परामृशन्ती, ' पुण्डरीक, निष्ठुरोऽसि । एवमप्यार्तां न गणयसि माम् ' इत्युपालभमाना, मुहुर्मुहुरेनमन्वनयम् । मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । ' अयि भगवन्, प्रसीद, प्रत्युजीवयैनम् ' इति मुहुर्मुहुः कपिञ्जलस्य पादयोरपतम् । महुर्मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् ”
इत्येवमात्मवृत्तान्तमावदयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरम् अनुभवन्त्या इव चेतनां जहार मूर्छा । वेगान्निपतन्ती च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलाद्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्, संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडेन प्रक्षाल्यमानकपोल्युगलो लब्धचेतनामवादीत् — “ भगवति, मया पापेन तवायं पुनरग्निवतामुपनीतः शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया । संह्रियतामियम् । अहमप्यसमर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथं कथमपि विधृतनिमानसुलभानसून् पुनः पुनः स्मरणशोकानलेन्धनतामुपनेतुम् ” इति ॥
एवमुक्ता दीर्घमुष्णं च निश्वस्य, बाष्पायमाणलोचन सनिर्वेदमवादीत् — “ राजपुत्र, या तदा तस्यामतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न परित्यक्ता, ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनयहृदयायाः शोकः सर्वमिदमलीकमस्य दुरात्मनः शठहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरी कृता । यया वज्रमय्येवेदमनुभूतम्, ततः का गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति, यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्, तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि । तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तत्तद्बहु विलप्य तरलिकामब्रवम् — ' अयि उत्तिष्ठ निष्ठुरहृदये कियद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम् ' इति ॥
॥ इति महाश्वेताविलापः, चन्द्रापीडः ताम् अग्रेकथनात् निवारयति ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.