Loading data... On slow networks this could take a few minutes.
100%
॥ अथ महाश्वेतायाः स्वविधेयालोचनानि ॥
गतायां च तस्याम्, अस्तमुपगते भगवति सवितरि, तिमिरेणावष्टभ्यमाने जीवलोके, किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् — “ अयि तरलिके, कथं न पश्यसि — दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमस्मि ज्ञातुम् । उपदिशतु मे भवती, यदत्र साम्प्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घ्य शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम् । एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोमि, एवमपि प्रथमं तावत् — स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरम् — यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात् प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत् ” इत्येवमुच्चारयन्त्यामेव मयि, आसन्नचन्द्रोदयजन्मना विरलविरलेनालोकेन धूसरतां वासवीदिगयासीत् ॥
ततः शशिकेसरिकरविदार्यमाणतमःकरिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमानं पश्चिमेतरदिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निष्पतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमवदार्योद्गच्छता शेषफणामण्डलेनेव रजनिकरबिम्बेनाराजत रजनी ॥
अथ तं प्रयासन्नसमुद्रविद्रुमप्रभापाटलितमिवाभिनवोदयरागलोहितं रजनिकरमुदितं विलोकयन्तीम्, अन्धकारितहदयाम्, तरलिकोत्सङ्गविधृतशरीराम्, मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीताभिः चन्दनचर्चाभिः तालवृन्तानिलैश्चोपलब्धसंज्ञा, तामेवाकुलाकुलां रुदतीं तरलिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा बद्धाञ्जलिरवादीत् — “ भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ, स्वयं वा तत्र गम्यताम् ” इत्येवंवादिनीम् ' उत्तिष्ठ, यथाकथंचिदनुगतजीविता संभावयामि हृदयदयितं जनम् ' इत्यभिदधाना कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चालितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् — ' इदमपरं किमप्युपक्षिप्तं दैवेन ' इति ॥
॥ इति महाश्वेतायाः स्वविधेयालोचनानि ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.