॥ अथ पुण्डरीकसन्तापोशमचिन्ता, महाश्वेतायाः चिन्ता ॥
पुनश्चाचिन्तयम् — ' किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासमिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः। सततमतिगर्हितेनाकृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून् साधवः । तदतिह्रेपणमकर्तव्यमप्येतदसमाकम् अवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते । का चान्या गतिः। सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम् ' इति चिन्तयित्वा, कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय सञ्जातलज्जो निवारयेदित्यनिवेद्यैव तस्मै, तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितम्, तत्र प्रभवति भवती ' इत्यभिधाय, किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ॥
अहं तु तदाकर्ण्य, सुखामृतमये ह्रद इव निमग्ना, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, तत्कालोपजातया लज्जया किञ्चिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैः आनन्दबाष्पजलबिन्दुभिः स्रवद्भिरावेद्यमानप्रहर्षप्रसङ्गा तत्क्षणमचिन्तयम् — ' दिष्ट्या तावदयमनङ्गो मामिव तमप्यनुबध्नाति । यत्मत्यमतेन मे सन्तापयताप्यंशेन दर्शितानुकूलता । यदि च सत्यमेव तस्येदृशी दशा वर्तते, ततः किमिव नोपकृतमनेन । किं वा नोपपादितम् । को वानेनापरः समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम् । तस्य वा पुरः किमभिधातव्यम् ' इत्येवं विचारयन्तीमेव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् — ' भर्तृदारिके, त्वमस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता ' इति । तच्च श्रुत्वा कपिञ्जलो महाजनसमर्दभीरुः सत्वरमुत्थाय, ' राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमयमुपगच्छति दिवसकरः । तद्गच्छामि । सर्वधाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः ' इत्यभिधाय, प्रतिवचनकालमप्रतीक्ष्यैव, पुरोयायिनाम्बायाः परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत्। तया तु तत्रागत्य किं कृतम्, किमभिहितम् किमाचेष्टितम्, इति शून्यहृदया सर्वं नालक्षयम् ॥
॥ इति पुण्डरीकसन्तापोशमचिन्ता, महाश्वेतायाः चिन्ता ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.