एवमुक्तोऽप्यहमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेशविशदैः सनिदर्शनैः सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमानोऽपि नाकरोत्कर्णे, तदाहमचिन्तयम् — ' अतिभूमिमयं गतो न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि ' इति कृतमतेः, मुहुर्मुहुरन्यदन्यन्नलिनदलशयनमुपकल्पयतः, मुहुर्मुहुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेनानवरतं वीजयतः, समुदभून्मे मनसि चिन्ता — ' नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो जनः । क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता । सर्वथा न हि किञ्चिदस्य दुर्घटं दुष्करमनायत्तमकर्तव्यं वा जगति । दुरुपपादेष्वप्यर्थेष्वयमवज्ञया विचरति । नायं केनापि प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु । अपगतचेतनान्यपि संघटयितुमलम् । यद्यस्मै रोचते, कुमुदिन्यपि दिनकरकरानुरागिणी भवति । कमलिन्यपि शशिकरद्वेषमुज्झति । निशापि वासरेण सह मिश्रतामेति । ज्योत्स्नाप्यन्धकारमनुवर्तते । किं वा तस्य दुःसाधमपरम् । एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । क्व तत्तपः । क्वेयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम् । किं वा चेष्टितव्यम् । कां दिशं गन्तव्यम् । किं शरणम् । को वोपायः । कः सहायः । कः प्रकारः । का युक्तिः। कः समाश्रयः । येनास्यासवः सन्धार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समाश्वासनेन, अयं जीवेत् ' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् ॥
॥ इति पुण्डरीकसन्तापं प्रति कपिञ्जलस्य चिन्ता ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.