Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पुण्डरीकं प्रति कपिञ्जलस्य प्रश्नाः, पुण्डरीकस्य उत्तरम् ॥
अहं तु तदाकर्ण्य, तदवस्थयैव, ' अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः ' इति मनसावधार्य, अब्रवम् — “ सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेव पृच्छामि । यदेतदारब्धं भवता, किमिदं गुरुभिरुपदिष्टम् ? उत धर्मशास्त्रेषु पठितम् ? उत धर्मार्जनोपायोऽयम् ? उतापरस्तपसां प्रकारः ? उत स्वर्गगमनमार्गोऽयम् ? उत व्रतरहस्यमिदम् ? उत मोक्षप्राप्तियुक्तिरियम् ? आहोस्विदन्यो नियमप्रकारः ? कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा । किमप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । को वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः । स खलु धर्मबुद्ध्या विषलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागरुधूमलेखेति कृष्णसर्पमवगूहते, रत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयतत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निर्वीर्यमिदं ज्ञानमुद्वहसि । यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि च क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः ' इत्येवं वदत एव मे वचनमाक्षिप्य, प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः, करतलेन पाणौ मामवलम्ब्य, अवोचन् — ' सखे किं वहुनोक्तन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे। सुखमुपदिश्यते परस्य । यस्य चेन्द्रियाणि सन्ति, मनो वा विद्यते, यः पश्यति वा, शृणोति वा, श्रुतमवधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलम्, स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । कथमप्येवमेवायत्नविधृतास्तिष्ठन्त्यसवः । दूरातीतः खलूपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसङ्ख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येतास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्य वान्यस्य वचसि मया स्थातव्यम् । को वापरस्त्वत्समो में जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि, तावदस्य मदनसन्तापस्य प्रतिक्रिया क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि । उत्क्वथ्यत इव हृदयम् । प्लुष्यत इव दृष्टिः । ज्वलतीव शरीरम् । अत्र यत्प्राप्तकालम्, तत्करोतु भवान् ' इत्यभिधाय तूष्णीमभवत् ॥
॥ इति पुण्डरीकं प्रति कपिञ्जलस्य प्रश्नाः, पुण्डरीकस्य उत्तरम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.