Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पुणडरीकमदनावस्था ॥
अथैकस्मिन् सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव मधुकरसमय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकलव्यापारतया लिखितमिव उत्कीर्णमिव स्तम्भितमिव उपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्ववृत्ताच्चलितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन सन्ताप्यमानम्, अतिनिस्पन्दतया हृदयनिवासिनीप्रियां द्रष्टुमन्तःप्रविष्टैरिवासह्यसन्तापसंत्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निस्पन्दनिमीलितेनेक्षणयुगलेन बाष्पजलदुर्दिनमुत्सृजन्तम्, अलिनिवहनिपीयमानपरिमलैरुपरि पतद्भिश्चम्पककुड्मलैस्तप्तशरशल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव क्रशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपगतम्, परां कोटिमधिरूढं मन्मथावेशस्य, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् ॥
अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुद्वीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम् — ' एवं नामायमतिदुर्विषहवेगो मकरकेतुः । येनानेन क्षणेनायमीदृशमवस्थान्तरम् अप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अहो बत महच्चित्रम् । तथा नामायमाशैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचरितः आसीत् । अद्य त्वितर इव परिभूय ज्ञानम्, अविगणय्य तपःप्रभावम्, उन्मूल्य गाम्भीर्यम्, मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम् ' इति । उपसृत्य च तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्य, अंसदेशावसक्तपाणिः, तमनुन्मीलितलोचनमेव ' सखे पुण्डरीक, कथय किमिदम् ' इत्यपृच्छम् ।
अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात् उपजातारुणभावम् अश्रुजलपटलपूरप्लावितम् उत्कुपितमिव संवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य, मन्थरया दृष्ट्या सुचिरं विलोक्य माम्, आयततरं निश्वस्य लज्जाविशीर्यमाणविरलाक्षरम्, ' सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि ' इति कृच्छ्रेण शनैः शनैरवदत् । अहं तु तदाकर्ण्य, तदवस्थयैव, ' अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः ' इति मनसावधार्य, अब्रवम् ।
॥ इति पुणडरीकमदनावस्था ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.