॥ अथ पुण्डरीकदशामुद्दिश्य कपिञ्जलस्य विचाराः ॥
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् — ' राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्व कन्दमूलफलाशी शान्तो वननिरतो मुनिजनः । क्वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो रागप्रायः प्रपञ्चः । सर्वमेवानुपपन्नम् । आलोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम् । उताहो जटानां समुचितम् । किं तपसोऽनुरूपम् । आहोस्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना । केवलमवश्यकथनीयमिदम् । अपर उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गतिर्नास्ति । अकथ्यमाने च, महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि ।
अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेनाभिहितः । तथा चाभिधाय परित्यज्य तम्, तस्मात्प्रदेशादुपजातमन्युः, उत्सृष्टकुसुमावचयः, अन्यं प्रदेशमगमम् । अपयातायां भवत्यां मुहूर्तमिव स्थित्वा, ' एकाकी किमयमिदानीमाचरति ' इति संजातवितर्कः, प्रतिनिवृत्य, विटपान्तरितविग्रहः, तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम्, आसीञ्च मे मनस्येवम् — ' किंनु मदनपरायत्तचित्तवृत्तिस्तामेवनुसरन् गतो भवेत् ? गतायां च तस्यां लब्धचेतनो लज्जमानो न शक्नोति मे दर्शनपथमुपगन्तुम् ? आहोस्वित्कुपितः परित्यज्य मां गतः ? उतान्वेषयन्मामेव प्रदेशमन्यमितः समाश्रितः स्यात् ? ' इत्येवं विकल्पयन्, कञ्चित्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूयमानः पुनरचिन्तयम् — ' स कदाचिद्धैर्यस्खलनविलक्षः किञ्चिदनिष्टमपि समाचरेत् । न हि किञ्चिन्न क्रियते ह्रिया । तन्न युक्तमेनमेकाकिनं कर्तुम् ' इत्यवधार्य, अन्वेष्टुमादरमकरवम् । अन्वेषयंश्च यथा यथा नापश्यं तम्, तथा तथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानः, तरुलतागहनानि चन्दनवीथिकालतामण्डपान् सरःकूलानि च वीक्षमाणः, निपुणमितस्ततो दत्तदृष्टिः, सुचिरं व्यचरम् ॥
॥ इति पुण्डरीकदशामुद्दिश्य कपिञ्जलस्य विचाराः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.