Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पुण्डरीकस्य पत्रिका, कपिञ्जलागमनम् ॥
अहं तु तस्याः करतलादादाय तां वल्कलपट्टिकां तस्यामिमामभिलिखितामार्यामपश्यम् —
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
अनया च मे दृष्ट्या दोषविकारोपचयः सुतरामक्रियत मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यागमम् । तां च द्वितीयदर्शनेन समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, कपोलयोरलकलताभङ्गेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, ' तरलिके, कथय कथं स त्वया दृष्टः, किं किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नस्मानसावागतः ' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ॥
अथ लोहितायति गगनतलोपान्तावलम्बिनि रविबिम्बे, मुकुलितरक्तपङ्कजपुटप्रविष्टमधुकरावलीषु रविविरहमूच्छान्धकारितहदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, सा छत्रग्राहिणी समागत्याकथयत् — ' भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति च अक्षमालाम् उपयाचितुमागतोऽस्मि ' इति ॥
अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशम्, समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् ' गच्छ, प्रवेश्यताम् ' इत्यादिश्य प्राहिणवम् ॥
अथ महूर्तादिव तं तस्य मकरकेतनस्येव वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलम्, अनुरूपं सखायमृषिकुमारकं कपिञ्जलनामानमागच्छन्तमपश्यम् । अन्तिकमुपगतस्य चास्य पर्याकुलमिव शून्यमिवाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणौ उपमृज्योत्तरीयांशुकपल्लवेन, अव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव, स तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव ' भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितमभिधीयताम् ' इत्यवोचम् ॥
॥ इति पुण्डरीकस्य पत्रिका, कपिञ्जलागमनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.