॥ अथ महाश्वेतायाः मन्मथदशा, तरलिकापुण्डरीकयोः संवादः ॥
इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् ' सखे कपिञ्जल, किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालाग्रहणापराधमिमम् ' इत्यभिधाय, अलीककोपकान्तेन मुखेन्दुना मामवदत् ' चपले, प्रदेशादस्मादिमामाक्षमालामदत्वा पदात्पदमपि न गन्तव्यम् ' इति। तच्च श्रुत्वा, अहमात्मकण्ठादुन्मुच्यैकावलीम्, ' भगवन्, गृह्यतामक्षमाला ' इति
मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय, स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् ॥
गत्वा च प्रविश्य कन्यकान्तःपुरम्, ततः प्रभृति तद्विरहविधुरा, किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, कानि रम्याणि, कान्यरम्याणीति सर्वमेव नावागच्छम् । अविज्ञातमदनवृत्तान्ता च, क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति सर्वं च नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादम्, विसर्ज्य च सखीजनम्, द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्य, एकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्तां प्रष्टुमीहमाना, तद्वल्लभतया तपःक्लेशायापि स्पृहयन्ती, तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तच्छ्रवणसंपर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव सवितुस्तस्यैवाभिमुखी, तथैव तामक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया कर्णलग्नया पारिजातमञ्जर्या कण्टकितैककपोलफलका, निस्पन्दमतिष्ठम् ॥
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत्। सा च पश्चाच्चिरादिवागत्य, तथावस्थितां शनैर्मामवादीत् — “ भर्तृदारिके, यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेकः, येन भर्तृदुहितुरियमवतंसीकृता सुरतरुकुसुममजुरी, स तस्माद्द्वितीयादात्मनो रक्षन् दर्शनम्, अतिनिभृतपदः, कुसुमितलतासंतानगहनान्तरेणापसृत्य मामागच्छन्तीं पृष्ठतः, भर्तृदारिकामुद्दिश्याप्राक्षीत् — ' बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व गच्छति ' इति । मयोक्तम् — ' एषा खलु गन्धर्वाधिपतेर्हंसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रस्थिता ' इति कथिते च मया, किमपि चिन्तयन्मुहूर्तमिव तृष्णीं स्थित्वा, विगतनिमषेण चक्षुषा चिरमभिवीक्षमाणो माम्, सानुनयमर्थितामिव दर्शयन्पुनराह — ' बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम्। तत्करोषि मे वचनमेकमभ्यर्थ्यमाना ' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः — ' भगवन्, कस्मादेवमाभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्विस्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः ' इत्येवमुक्तश्च मया सस्नेहया, सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य, निकटवर्तिनस्तमालपादपात् पल्लवमादाय, निष्पीड्य शिलातले, तेन रसेनोत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य, ' इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया ' इत्यभिधायार्पितवान् ” इत्युक्त्वा च सा, ताम्बूलभाजनादाकृष्य तामदर्शयत् ।
॥ इति महाश्वेतायाः मन्मथदशा, तरलिकापुण्डरीकयोः संवादः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.