' इयं च, सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतो यः पारिजातनामा पादपः, तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती, तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्, निर्गत्य साक्षान्नन्दनवनदेवतया पारिजातकुसुममञ्जरीमिमामादाय, प्रणम्याभिहितः — ' भगवन्, इयमवतंसविलासदुर्ललिता समारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य ' इत्येवमभिदधानां तामनुयान्तीमालोक्य, ' को दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः ' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य मया कर्णपूरीकृता । तदेतत्कार्त्स्न्येन, योऽयम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा, तत्सर्वमावेदितम् ' इत्युक्तवति तस्मिन्, स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् — ' अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला, गृह्यतामियम् ' इत्युक्त्वा समुपसृत्य, आत्मीयाच्छ्रवणादपनीय मदीये श्रवणपुटे तामकरोत् । स च मत्कपोलस्पर्शतरलीकृताङ्गुलिजालकात् करतलादक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्रामेव भूतलमक्षमालां गृहीत्वा, सलीलं कण्ठाभरणतामनयम् ॥
इत्थंभूते च व्यतिकरे छत्रप्राहिणी मामवोचत् — ' भर्तृदारिके, स्नाता देवी । प्रत्यासीदति गृहगमनकालः । तत्क्रियतां मज्जनविधिः ' इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छया कथं कथमपि समाकृष्यमाणा, तन्मुखादतिकृच्छ्रेण दृष्टिमाकृष्य, स्नातुमुदचलम् ॥
उच्चलितायां च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् — ' सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः। किं यः कश्चित्प्राकृत इव विक्लवीभवन्तमात्मानं न रुणत्सि। कुतस्तवापूर्वोऽयमद्येन्द्रियोपप्लवः, येनास्येवंकृतः । क्व ते तद्धैर्यम् । क्वासाविन्द्रियजयः। क्व सा प्रशान्तिः । क्व तत्कुलक्रमागतं ब्रह्मचर्यम् । क्व ते गुरूपदेशाः । क्व तानि श्रुतानि । क्व ता वैराग्यबुद्धयः । क्वासौ तपस्यभिनिवेशः । क्व तद्यौवनानुशासनम् । सर्वथा निष्फला प्रज्ञा । निर्गुणो धर्मशास्त्राभ्यासः । निरर्थकः संस्कारः । निरुपकारको गुरूपदेशविवेकः । निष्प्रयोजना प्रबुद्धता । निष्कारणं ज्ञानम् । यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते, प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्वम् । अपहृता नामेयम् । इदमपि तावदपह्रियमाणमनयानार्यया निवार्यतां हृदयम् ' ॥
॥ इति कुसुममञ्जरीप्राप्तिकथा, पुण्डरीकाय उपदेशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.