Loading data... On slow networks this could take a few minutes.
100%
॥ अथ महाश्वेताविचाराः, पुण्डरीकदशा, पुण्डरीकजन्मकथा ॥
आसीच्च मम मनसि — “ शान्तात्मनि दूरीकृतविषयव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य । यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेदमतिभास्वरं धाम तेजसां तपसां च । क्व च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदम्यदहमेवमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । कथमनेन क्षणेनाकारमात्रालोकन आकुलीभूतमेवम् अस्वतन्त्रतामुपैत्यन्तःकरणम् । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात् प्रदेशादपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । अदूरकोपा हि मुनिजनप्रकृतिः ” इत्यवधार्य, अपसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तस्मै प्रणाममकरवम् ॥
अथ कृतप्रणामायां मयि, दुर्लङ्घशासनतया भगवतो मनोभुवः, अविनयबहुलतया चाभिनवयौवनस्य, चपलतया च मनोवृत्तेः, तथाभवितव्यतया च तस्य तस्य वस्तुनः, किं बहुना, मम मन्दभाग्यदौरात्म्यात्, अस्य चेदृशस्य क्लेशस्य विहितत्वात्, तमपि मद्विकारदर्शनापहृतधैर्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तया तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा, तत्क्षणमहमवर्णनयोग्यां कामप्यवस्थामन्वभवम् ॥
प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् — ' भगवन्, किमभिधानः ? कस्य चायं तपोधनयुवा ? किंनाम्नस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी ? जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः ' इति । स तु मामीषद्विहस्याब्रवीत् — “ बाले, किमनेन पृष्ठेन प्रयोजनम् । अथ कौतुकमावदयामि । श्रयताम् —
अस्ति खलु सकलत्रिभुवनप्रख्यातकीर्तिः, महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च कदाचिद्देवतार्चनकमलान्युद्धर्तुं मन्दाकिनीमवतरतस्त्रिभुवनसुन्दरं रूपमास्वादयन्त्या मन्मथविकृताया विकचपुण्डरीकोपविष्टाया देव्या लक्ष्म्याः सद्य एव कुमार एष समुदपादि । ततस्तमुत्सङ्गेनादाय सा ' भगवन्, गृहाण, तवायमात्मजः ' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा, तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमकार्षीत् । सोऽयम् ॥
॥ इति महाश्वेताविचाराः, पुण्डरीकदशा, पुण्डरीकजन्मकथा ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.