तेन च कर्णावतंसीकृतां कृत्तिकातारास्तबकानुकारिणीमदृष्टपूर्वीं कुसुममञ्जरीमद्राक्षम् । अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमल इति मनसा निश्चित्य तं तपोधनयुवानमीक्षमाणाहमचिन्तयम् — “ अहो रूपातिशयनिष्पादनोपकरणकोशस्याक्षीणता विधातुः । यत्त्रिभुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य, तदाकारातिरिक्तरूपराशिरयमपरो मुनिमायामयो मकरकेतुरुत्पादितः । मन्ये च, सकलजगन्नयनानन्दकरं शशिबिम्बं विरचयता, लक्ष्मीलीलावासभवनानि कमलानि सृजता, प्रजापतिना प्रथममेतदाननाकारकरणकौशलाभ्यास एव कृतः । अन्यथा किमिव हि सदृशवस्तुविरचनायाः कारणम् । अलीकं चेदम्, यथा किल - सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति । मन्ये - ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम् ” इति विचिन्तयन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवनसुलभः कुसुमायुधः परवशामकरोत् ॥
उच्छ्वसितैः सह विस्मृतनिमेषेण किञ्चिदामुकुलितपक्ष्मणा दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव, किमपि याचमानेव, हा हा किमिदमसांप्रतमतिह्रेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतमिति जानानाप्यप्रभवन्ती करणानाम्, स्तम्भितेव, लिखितेव, केनापि विधृतेव, निस्पन्दसकलावयवा तमतिचिरं व्यलोकयम् । अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुमाहितसंतानां निरीयुः श्वासमरुतः । स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा ॥
॥ इति पुण्डरीकदर्शने महाश्वेतायाः दशा ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.