॥ अथ महाश्वेताजन्म, स्नानभ्रमणम्, पुण्डरीकवर्णना ॥
अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्ठो हंसो नाम जगद्विदितो गन्धर्वः, तस्मिन्द्वितीये गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोममयूखसंभूतानामप्सरसां कुलम्, तस्मात्किरणजालानुसारगलितेन सकलेनेव रजनिकरकलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी गौरीति नाम्ना हिमकरकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयगन्धर्वकुलाधिपतिर्हंसः प्रणयिनीमकरोत् । सा तु हंसेन संयोजिता सदृशसमागमोपजनितामतिमहती मुदमुपगतवती । निखिलान्तःपुरस्वामिनी च तस्याभवत् ॥
तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमनेकदुःखसहस्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मज्जन्माभिनन्दितवान् । अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादङ्कं संचरन्ती, अविदितस्नेहशोकायासमनोहरं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् ॥
अथ विजृम्भमाणनवनलिनवनेषु सकलजीवलोकहृदयानन्ददायकेषु मधुमासदिवसेषु, एकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकह्लारम् इदमच्छोदं सरः स्नातुमभ्यागमम् । अत्र च बहुलकुसुमरजःपटलमग्नकलहंसपदलेखम् अतिरमणीयमिदं तीरतरुतलमिति स्निग्धमनोहरतरोद्देशदर्शनलोभाक्षिप्तहृदया सह सखीजनेन व्यचरम् ॥
एकस्मिंश्च प्रदेशे झटिति वनानिलेनोपनीतम्, निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसुमपरिमलम्, विसर्पन्तम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम्, अनाघ्रातपूर्वममानुषलोकोचितकुसुमगन्धमभ्यजिघ्रम् । ' कुतोऽयम् ' इत्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवाकृष्यमाणा, कतिचित्पदानि गत्वा, हरहुताशनेन्धनीकृतमदनशोकविधुरं वसन्तमिव तपस्यन्तम्, अतितेजस्वितया प्रचलतटिल्लतापञ्जरमध्यगतमिव विभाव्यमानम्, एकेन सनालवकुलफलाकारं कमण्डलुम्, अपरेण च स्फटिकाक्षमालिकां करेण कलयन्तम्, आत्मतेजसा विजित्य सवितारमागृहीतेन परिवेषमण्डलेनेव मौञ्जमेखलागुणेन परिक्षिप्तजघनभागम्, अलङ्कारमिव ब्रह्मचर्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम्, सङ्केतस्थानमिव सर्वश्रतानाम्, आत्मानुरूपेण सवयसा परेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम्, अतिमनोहरं स्नानार्थमागतं मुनिकुमारकमपश्यम् ॥
॥ इति महाश्वेताजन्म, स्नानभ्रमणम्, पुण्डरीकवर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.