Loading data... On slow networks this could take a few minutes.
100%
॥ अथ चन्द्रापीडवितर्कः, महाश्वेताजन्मकथा ॥
तां च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षणमचिन्तयत् — ' अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न हि कञ्चन न स्पृशन्ति शरीरधर्माणामुपतापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदमपरमधिकतरमुपजनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्ते एवंविधा मूर्तयः । न हि क्षुद्रनिर्घातपाताभिहता चलति वसुधा ' इति संवर्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिव आत्मानमवगच्छन्, उत्थाय प्रसवणादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये । सा तु तदनुरोधादविच्छिन्नबाष्पजलधारासन्तानापि किञ्चित्कषायितोदरे प्रक्षाल्य लोचने, वल्कलोपान्तेन वदनमपमृज्य, दीर्घमुष्णं च निःश्वस्य, शनैः प्रत्यवादीत् — “ राजपुत्र, किमनेनातिनिघृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति वैराग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलम्, तत्कथयामि । श्रूयताम् —
एतत्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयतामापतितमेव — यथा विबुधसद्मन्यप्सरसो नाम कन्यकाः सन्ति । तासां चतुर्दश कुलानि । एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम् । अन्यद्वेदेभ्यः संभूतम् । अन्यदग्नेरुद्भूतम् । अन्यत्पवनात्प्रसूतम्। अन्यदमृतान्मथ्यमानादुत्थितम् । अन्यज्जलाज्जातम् । अन्यदर्ककिरणेभ्यो निर्गतम् । अन्यत्सोमरश्मिभ्यो निपतितम् । अन्यद्भूमेरुद्भूतम् । अन्यत् सौदामनीभ्यः प्रवृत्तम् । अन्यन्मृत्युना निर्मितम् । अपरं मकरकेतुना समुत्पादितम् । अन्यत्तु, दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् । एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसम्भवं तदेव कुलद्वयं जातम् । तत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातॄणामधिको गुणैः षोडशश्चित्ररथो नाम । स किल सर्वेषां गन्धर्वाणामाधिपत्यं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरेणानन्तरे किंपुरुषनाम्नि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम् । इदं चाच्छोदाभिधानमतिमहत्सरः खानितम् । अयं च भवानीपतिरुपरचितो भगवान् ।
॥ इति चन्द्रापीडवितर्कः, महाश्वेताजन्मकथा ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.