कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टः, दिग्विजयादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका, भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार । अचिरेण तस्याः स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपभोगाय नियुक्तवती चन्द्रापीडम् । आसीच्च तस्य चेतसि — ' नास्ति खल्वसाध्यं नाम तपसाम् । किमतः परमाश्चर्यम्, यदत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रमिदमालोकितम् अस्माभिरदृष्टपूर्वम् ” इत्यधिकतरोपजातविस्मयश्चोत्थाय, तमेव प्रदेशमिन्द्रायुधमानीय, व्यपनीतपर्याणं नातिदूरे संयम्य, निर्झरजलनिर्वर्तितस्नानविधिः, तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च तुषारशिशिरं प्रस्रवणजलम्, उपस्पृश्यैकान्ते तावदवतस्थे, यावत्तयापि कन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणयः ॥
अथ परिसमापिताहारां निर्वर्तितसंध्योचिताचारां शिलातले विस्रब्धमुपविष्टां निभृतमुपसृत्य, नातिदूरे समुपविश्य, मुहूर्तमिव स्थित्वा, चन्द्रापीडः सविनयमवादीत् — “ भगवति, त्वत्प्रसादप्राप्तिप्रोत्साहितेन कुतूहलेनाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । जनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकदेशावस्थाने कालकला परिचयमुत्पादयति । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति । तद्यदि नातिखेदकरमिव, ततः कथनेनात्मानमनुग्राह्यमिच्छामि । अतिमहत्खलु भवदर्शनात्प्रभृति मे कौतुकमस्मिन्विषये । कतरन्मरुतामृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वयः । क्वेयमाकृतिः । क्व चायं लावण्यातिशयः । क्वेयमिन्द्रियाणामुपशान्तिः । तदद्भुतमिव मे प्रतिभाति । किन्निमिन्तं वानेकसिद्धसाध्यसंबाधानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदानि, एकाकिनी वनमिदममानुषमधिवससि । कश्चायं प्रकारः, यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशीं धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र दृष्टश्रुतपूर्वम् । अपनयतु नः कौतुकम् । आवेदयतु भवती सर्वम् ” इत्येवमभिहिता सा, किमप्यन्तर्ध्यायन्ती, तूष्णीं मुहूर्तमिव स्थित्वा, निःश्वस्य, स्थूलस्थूलैरनुबद्धबिन्दुभिरश्रुभिरामीलितलोचना निःशब्दं रोदितुमारेभे ॥
॥ इति महाश्वेतां प्रति चन्द्रापीडस्य विचाराः प्रश्नाश्च ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.