॥ अथ चन्द्रापीडस्य मनोभावः, महाश्वेतायाः आतिथ्याङ्गीकारः ॥
ततोऽवतीर्य, तरुशाखायां बद्ध्वा तुरङ्गमम्, उपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय, तामेव दिव्ययोषितमनिमेषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य तस्या रूपसंपदा कान्त्या प्रशान्त्या चाविर्भूतविस्मयस्य मनसि — ' अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तान्तराणि । तथा हि — मया मृगयायां यदृच्छया निरर्थकमनुबध्नता तुरङ्गमुखमिथुनम्, अयमतिमनोहरो मानवानामगम्यो दिव्यजनसञ्चरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषयता हृदयहारि सिद्धजनोपस्पृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि मे संशीतिरस्या दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूतिरेवंविधानां गन्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथान्नापयाति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः ' का त्वम्, किमभिधाना वा, किमर्थं प्रथमे वयसि प्रतिपन्ना व्रतम् ? ' इति सर्वमेतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम् ” इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टः, गीतसमाप्त्यवसरं प्रतीक्षमाणस्तस्थौ ॥
अथ गीतावसाने सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा, परिवृत्य चन्द्रापीडमाबभाषे — “ स्वागतमतिथये । कथमिमां भूमिमनुप्राप्तो महाभागः ? तदुत्तिष्ठ । आगम्यताम्, अनुभूयतामतिथिसत्कारः ” इति । एवमुक्तस्तु तया संभाषणमात्रेणैवानुगृहोतमात्मानं मन्यमानः, उत्थाय भक्त्या कृतप्रणामः, ' भगवति, यथाज्ञापयसि ' इत्यभिधाय दर्शितविनयः शिष्य इव तो व्रजन्तीमनुवव्राज । व्रजंश्च समर्थयामास — “ हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूता । कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभदिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते, तथा संभावयामि नियतमियमखिलमात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति ” इति । एवं च कृतमतिः पदशतमात्रमिव गत्वा, अन्तःस्थापितमणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकाशिखरनिबद्धनालिकेरीफलवल्कलमयधौतोपानद्युगोपेताम्, शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम्, संनिहितभस्मालाबुकां गुहामद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टः, वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीतमर्घसलिलमादाय तां कन्यकां समुपस्थिताम्, “ अलमतियन्त्रणया । कृतमतिप्रसादेन । भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनमपि सर्वपापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम् ” इत्यब्रवीत् । अनुबध्यमानश्च तया, तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह ॥
॥ इति चन्द्रापीडस्य मनोभावः, महाश्वेतायाः आतिथ्याङ्गीकारः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.