॥ अथ सिद्धायतनम्, महाश्वेतावर्णना ॥
क्रमेण च संमुखागतैरच्छनिझरजलकणजालजनितजडिमभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानः, गत्वा च तं प्रदेशम्, शुकशतमुखनखशिखरशकलितफलस्फीतैः, जलधरजललुब्धमुग्धचातकध्वानमुखरिततमालखण्डैः, इभकलभकोल्लूनपल्लववेल्लितलवलीवलयैः, अविरलफलनिकरावनतनालिकेरवनैः, अन्तरान्तरा कैलासतरङ्गिणीतरङ्गितसिकतिलतलभूमिभागैः पादपैः परिवृतम्, चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तारे कैलासपादस्य भूतलभागसंनिविष्टम्, भगवतः शूलपाणेः शून्यं सिद्धायतनमपश्यत् ॥
तच्च प्रविश्यादाक्षीत्, चतुःस्तम्भस्फटिकमण्डपिकातलप्रतिष्ठितम्, अमलमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम्, चराचरगुरुम्, चतुर्मुखम्, भगवन्तं त्र्यम्बकम् ॥
तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्मुखप्लावकेनातिदीर्घकालसंचितेन तपोराशिनेव विसर्पता देहप्रभावितानेन सगिरिकाननं दन्तमयमिव तं प्रदेशं कुर्वतीम्, पञ्चमहाभूनमयमपहाय द्रव्यात्मकमङ्गनिष्पादनोपकरणकलापं धवलगुणेनेव केवलेनोत्पादिताम्, क्षीरोदधिदेवतामिव सहवासपरिचितहरचन्द्रलेखोत्कण्ठाकृष्टाम्, त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, श्वेतद्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम्, धर्महृदयादिव निर्गताम्, शङ्खादिवोत्कीर्णाम्, मुक्ताफलादिवाकृष्टाम्, इयत्तामिव धवलिम्नः, जटापाशप्रथितमुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वयमुद्वहन्तीम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखजालेनेव मण्डलीकृतेन ब्रह्मसूत्रेण पवित्रीकृतकायाम्, उत्सङ्गगतां च स्वसुतामिव सूक्ष्मशङ्खखण्डिकाङ्गुलीयकपूरिताङ्गुलिना त्रिपुण्ड्रकावशेषभस्मपाण्डुरेण प्रकोष्ठबद्धशङ्कखण्डकेन दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, सुमधुरया च गीत्या देवं विरूपाक्षमुपवीणयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, निर्ममाम्, निरहंकाराम्, निमत्सराम्, अमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयःप्रमाणामपि अष्टादशवर्षदेशीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतव्रतां कन्यकां ददर्श ॥
॥ इति सिद्धायतनम्, महाश्वेतावर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.