Loading data... On slow networks this could take a few minutes.
100%
॥ अथ अच्छोदसरोविषये चन्द्रापीडविचारः, गीतध्वनिः ॥
नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोहदं देवो रथाङ्गपाणिः, यदिदममृतरससुरभिसलिलमपहाय, लवणरसपरुषपयस्युदन्वति स्वपिति । नूनं चेदं न प्रथममासीत्सरः, येन प्रलयवराहघोणाभिघातभीता भूतधात्री कलशयोनिपानपरिकलितसकलसलिलं सागरमवतीर्णा ; अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि निमग्ना भवेन्महासरसि, किमेकेन महावराहसहस्रैरपि नासादिता भवेत् । नूनं चास्मादेवं सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्लावयन्ति भुवनान्तराणि । मन्ये च, यत्सृष्टेरर्वाक्सलिलमयं ब्रह्माण्डरूपमादौ भुवनमभूत्, तदिदं पिण्डीभूय सरोव्यपदेशेनावस्थितम् ” इति विचारयन्नेव, तस्य शिलाशकलकर्कशवालुकाप्रायम्, विद्याधरोद्धृतसनालकुमुदकलापार्चितानेकचारुसैकतलिङ्गम्, दक्षिणं तीरमासाद्य तुरगादवततार ॥
अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीतकतिपययवसग्रासं सरोऽवतार्य, पीतसलिलमिच्छया स्नातं चोत्थाप्य, अन्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगतखलीनं हस्तपाशशृङ्खलया कनकमय्या चरणी बद्धा पुनरपि सलिलमवततार । ततश्च प्रक्षालितकरयुगलश्चातक इच कृत्वा जलमयमाहारं सरःसलिलादुदगात् । प्रत्यग्रभग्नशिशिरैश्च समृणालकैर्जलकणिकाचितैः कमलिनीपलाशैर्लतामण्डपपरिक्षिप्ते शिलातले स्रस्तरमास्तीर्य, निधाय शिरसि पिण्डीकृतमुत्तरीयम्, निषसाद । मुहूर्तं विश्रान्तश्च, तस्य सरस उत्तरे तीरप्रदेशे समुञ्चरन्तम्, उन्मुक्तकबलेन निश्चलश्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितम्, श्रुतिसुभगं वीणातन्त्रीझङ्कारमिश्रममानुषं गीतशब्दमशृणोत् । श्रुत्वा च, ' कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिः ' इति समुपजातकौतुकः, कमलिनीपत्रस्रस्तरादुत्थाय, तामेव गीतसंपातसूचितां दिशं चक्षुः प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य, प्रयत्नव्यापृतलोचनोऽपि विलोकयन्न किञ्चिद्ददर्श । तमेव केवलमनवरतं गीतशब्दं शुश्राव । कुतूहलवशाच्च गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिः, दत्तपर्याणमिन्द्रायुधमारुह्य, प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवर्त्मा, पश्चिमया सरस्तीरवनलेखया, निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे ॥
॥ इति अच्छोदसरोविषये चन्द्रापीडविचारः, गीतध्वनिः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.