प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः, स्फटिकभूमिगृहमिव वसुंधरादेव्याः, निर्गमनमार्गमिव सागराणाम्, त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थितम्, वैदूर्यगिरिजालमिव सलिलाकारेण परिणतम्, आपूर्णपर्यन्तमप्यन्तःस्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणम्, प्रतिमानिभेनान्तःप्रविष्टं सकाननशैलनक्षत्रग्रहचक्रवालं त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, असकृत्पितामहपरिपूरितकमण्डलुपरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलिलावतीर्णसावित्रीभग्नदेवतार्चनकमलसहस्रम्, सहस्रशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्, क्वचिद्वरुणहंसोपात्तकमलवनमकरन्दम्, क्वचित् त्र्यम्बकवृषभविषाणकोटिखण्डिततटशिलाखण्डम्, क्वचिद्यममहिषशृङ्गशिखरविक्षिप्तफेनपिण्डम्, क्वचिदैरावतदशनमुसलखण्डितकुमुदखण्डम्, अदृष्टान्तम्, अतिमनोहरम्, आह्लादनं दृष्टेः, अच्छोदं नाम सरो दृष्टवान् ॥
आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मनस्येवमकरोत् — “ अहो निष्फलमपि मे तुरगमुखमिथुनानुसरणमेतदालोकयतः सरः सफलतामपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् । आलोकितः खलु रमणीयानामन्तः। दृष्ट आह्लादनीयानामवधिः । वीक्षिता मनोहराणां सीमान्तलेखा । प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः । विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरःसलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसष्टिः । इदमपि खल्वमृतमिव सर्वेन्द्रियाह्लादनसमर्थम् । अतिविमलतया चक्षुषः प्रीतिमुपजनयति । शिशिरतया स्पर्शसुखमुपहरति । कमलसुगन्धितया घ्राणमाप्याययति । हंसमुखरतया श्रुतिमानन्दयति । स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः ।
॥ इति अच्छोदसरः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.