व्यावर्तिततुरगश्च पुनश्चिन्तितवान् — ' अयमुद्भासितप्रभाभास्वरे भगवान्भानुरधुना दिवसश्रियो रशनामणिरिव नभोमध्यमलङ्करोति । परिश्रान्तश्चायमिन्द्रायुधः । तदेनं तावदागृहीतकतिपयदूर्वाप्रवालकवलं कस्मिंश्चित्सरसि स्नातपीतोदकमपनीतश्रमं कृत्वा, स्वयं च सलिलं पीत्वा, कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो गमिष्यामि ' इति चिन्तयित्वा सलिलमन्वेषयन् मुहुर्मुहुरितस्ततो दत्तदृष्टिः पर्यटन्, नलिनीजलावगाहोत्थितस्याचिरादपक्रान्तस्य च महतो वनगजयूथस्य चरणोत्थापितैः पङ्कपटलैराद्रीकृतं मार्गमद्राक्षीत् ॥
उपजातजलाशयशङ्कश्च तं प्रतीपमनुसरन्, उद्ग्रीवदृश्यैरुपरि छत्रमण्डलाकारैः सरलसालसल्लकीप्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन गन्धपाषाणपरिमलामोदिना वेत्रलताप्रतानप्ररूढवेणुना कैलासतलेन कञ्चिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागेऽत्यायतं तरुखण्डं ददर्श । तं च कमलमधुपानमत्तानां श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव प्रविवेश ॥
॥ इति जलान्वेषणम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.