आरूढे च तस्मिन्, शनैः शनैस्तदनुसारिणी निवर्त्य दृष्टिम् ,
अचलशिखरप्रस्तरप्रतिहतगतिप्रसरो विधृततुरंगमश्चन्द्रापीडः, तस्मिन्काले, समारूढश्रमस्वेदार्द्रशरीरमिन्द्रायुधमात्मानं चावलोक्य, क्षणमिव विचार्य, स्वयमेव विहस्याचिन्तयत् — “ किमिति निरर्थकमयमात्मा मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन वा किन्नरयुगलेन प्रयोजनम् । यदि गृहीतमिदम्, ततः किम् । अथ न गृहीतम्, ततोऽपि किम् । अहो मे मूर्खतायाः प्रकारः। अहो यत्किञ्चनकारितायामादरः । अहो निरर्थकव्यापारेष्वभिनिवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्यकर्तव्या क्रिया प्रस्तुता विफलीभूता । राजधर्मः प्रवर्तितो न निष्पन्नः । गुर्वर्थः प्रारब्धो न परिसमाप्तः । विजिगीषुव्यापारः प्रयत्तो न सिद्धः । ' कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवारः, एतावती भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदं अनुसृतमश्वमुखद्वयम् ' इति विचार्यमाणे यत्सत्यमयमात्मैव मे पर इव हासमुपजनयति । न जाने - कियताध्वना विच्छिन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषमात्रेणातिदूरमतिक्रामति । न चागच्छता मया तुरगवेगवशात् किन्नरमिथुने बद्धदृष्टिना, अस्मिन्नविरलतरुशतशाखागुल्मलतासंतानगहने निरन्तरपतितशुष्कपर्णावकीर्णतले महावने पन्था निरूपितः, येन प्रतिनिवृत्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि परिभ्रमता मर्त्यधर्मा कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया बहुशः कथ्यमानम् - उत्तरेण सुवर्णपुरं सीमान्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्, तथातिक्रम्य कैलासगिरिरिति । अयं च कैलासः तदिदानीं प्रतिनिवृत्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव ” इत्यवधार्य, वामकरतलवलितरश्मिपाशः, तुरङ्गमं व्यावर्तयामास ॥
॥ इति किन्नरमिथुनस्य अप्राप्तौ चन्द्रापीडस्य निर्वेदः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.