एवं वदत एव तस्य युवराजः, तृणमयप्राकारमन्दिरसहस्रसंबाधाम् उल्लासितधवलपटमण्डपशतशोभिनीम् आवासभूमिमवाप । तस्यां चावतीर्य राजवत्सर्वाः क्रियाश्चकार । सर्वैश्च तैः समेत्य नरपतिभिरमात्यैश्च विविधाभिः कथाभिर्विनोद्यमानः, तं दिवसमशेषमभिनवपितृवियोगजन्मना शोकवेगेनायास्यमानहृदयः, दुःखेनात्यवाहयत् । अतिवाहितदिवसश्च यामिनीमपि, स्वशयनीयस्य नातिदूरे निहितशयननिषण्णेन वैशम्पायनेन, अन्यतश्च समीपे क्षितितलविन्यस्तकुथप्रसुप्तया पत्रलेखया सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा शुकनासमयं कुर्वन्नालापम्, नात्युपजातनिद्रः प्रायेण जाग्रदेव निन्ये । प्रत्यूषे चोत्थाय, तेनैव क्रमेणानवरतप्रयाणकः, प्रतिप्रयाणकमुपचीयमानेन सेनासमुदायेन जर्जरयन्वसुंधराम्, चूर्णयन्काननानि, समीकुर्वन्विषमाणि प्रातिष्ठत । शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नुन्नतान्, उन्नमयन्नतान्, आश्वासयन्भीतान्, रक्षन् शरणागतान्, उन्मूलयन्विटपकान्, उत्सादयन्कण्टकान्, अभिषिञ्चन्स्थानस्थानेषु राजपुत्रान्, समजयन् रत्नानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान्, आदिशन्देशव्यवस्थाः, स्थापयन् स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखयन् शासनानि, पूजयन्नग्रजन्मनः, प्रणमन्मुनीन्, पालयन्नाश्रमान्, जनयञ्जनानुरागम्, प्रकाशयन्विक्रमम्, आरोपयन्प्रतापम्, उपचिन्वन्यशः, विस्तारयन् गुणान्, प्रख्यापयन्सच्चरितम्, पृथिवीं विचचार । प्रथमं प्राचीम्, ततस्त्रिशङ्कतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं सप्तर्षिताराशबलां दिशं विजिग्ये । वर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं सकलमेव चतुरम्भोधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणावजितसकलभुवनतलः, प्रदक्षिणीकृत्य वसुधां परिभ्रमन्, कदाचित्कैलाससमीपचारिणां हेमकूटधाम्नां किरातानां सुवर्णपुरं नाम निवासस्थानं नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखिलधरणितलपर्यटनखिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसानतिष्ठत् ॥
एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य, मृगयानिर्गतो विचरन्काननम्, शैलशिखरादवतीर्णं यदृच्छया किन्नरमिथुनमद्राक्षीत् । अपूर्वदर्शनतया तु समुपजातकुतूहलः कृतग्रहणाभिलाषः, तत्समीपमादरादुपसर्पिततुरङ्गः समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च तत्पलायमानम् अनवरतपाणिप्रहारद्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य निजबलसमूहात् सुदूरमनुससार । ' अत्र गृह्यते, अत्र गृह्यते, इदं गृहीतम्, इदं गृहीतम् ' इत्यतिरभसाकृष्टचेताः, महाजवतया तुरङ्गमस्य मुहूर्तमात्रेणैकपदमिवासहायस्तस्मात् प्रदेशात् पञ्चदशयोजनमात्रमध्वानं जगाम । तच्चानुबध्यमानं किन्नरमिथुनमालोकयत एवास्य संमुखापतितमचलतुङ्गशिखरमारोह ॥
॥ इति पृथ्वीसञ्चारः, दिग्विजयः, किन्नरमिथुनदर्शनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.