॥ अथ वैशम्पायनस्य विस्मयः ॥
अथ दन्तिनां दिशि दिशि करविवरविनिःसृतैः शीकरासारैः हेषारवविप्रकीर्णैश्च वाजिनां लालाजललवजालकैरुपशमिते रजसि, पुनरुपजातालोकासु दिक्षु, सागरसलिलादिवोन्मग्नमालोक्य तदपरिमाणं बलम्, उपजातविस्मयः सर्वतो दत्तदृष्टिर्वैशम्पायनश्चन्द्रापीडमाबभाषे — ' युवराज, किं न जितं देवेन महाराजाधिराजेन तारापीडेन, यज्जेष्यसि । का दिशो न वशीकृताः, या वशीकरिष्यासि । कानि दुर्गाणि न प्रसाधितानि, यानि प्रसाधयिष्यसि । कानि रत्नानि नोपार्जितानि, यान्युपार्जयिष्यासि । कैर्न विरचितः शिरसि बालकमलकुड्मलकोमलः सेवाञ्जलिः । कैर्न घृष्टाः पादपीठे चूडामणयः । कैर्न प्रतिपन्ना वेत्रलताः । कैर्नोद्धूतानि चामराणि । कैर्नोच्चारिता जयशब्दाः । एते हि दशरथभगीरथभरतदिलीपालर्कमान्धातृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवाश्चूडामणिपल्लवैरुद्वहन्ति मङ्गल्यां भवच्चरणरजःसंहतिम् । एतानि चाप्यमीषामाप्लावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथा हि — पश्य पश्य यस्यां यस्यां दिशि विक्षिप्यते चक्षुः, तस्यां तस्यां रसातलमिवोद्गिरति, वसुधेव सूते, ककुभ इव वमन्ति, गगनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराक्रान्ता, मन्ये, स्मरति महाभारतसमरसंक्षोभस्याद्य क्षितिः । एष शिखरदेशेषु स्खलितमण्डलो ध्वजान् गणयन्निव कुतूहलाद्भ्रमति कदलिकावनान्तरेषु मयूखमाली । सर्वथा चित्रम्, यन्नाद्य विघटितसकलकुलशैलसंधिबन्धा सहस्रशः शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा न चलन्ति फणिनां पत्युः फणाभित्तयः ” इति ॥
॥ इति वैशम्पायनस्य विस्मयः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.