विनिर्गतश्च बहुलसिन्दूररेणुपाटलेन क्षितितलदोलायमानस्थूलमुक्ताकलापावचूलेन सितकुसुममालाजालशबलशिरसा संलग्नसंध्यातपेन तिर्यगावर्जितश्वेतगङ्गाप्रवाहेण तारागणदन्तुरितशिखरशिलातलेन मेरुगिरिणेव गन्धमादनेनानुगम्यमानः, कनकालङ्कारप्रभाकल्माषितावयवेन च समाकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः, शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे ॥
उच्चालितस्य चास्य, स्वभवनादुपपादितप्रस्थानमङ्गलः, धवलदुकूलवासाः, सितकुसुमाङ्गरागः, महता बलसमूहेन नरेन्द्रवृन्दैश्चानुगम्यमानः, धृतधवलातपत्रः, द्वितीय इव युवराजः, त्वरितपदसञ्चारिण्या करिण्या वैशम्पायनः समीपमाजगाम । आगत्य च रजनिकर इव रवेरासन्नवर्ती बभूव । अनन्तरमितश्चेतश्च ' निर्गतो युवराजः ' इति समाकर्ण्य प्रधावतां बलानां भरेण तत्क्षणमाचकम्पे मेदिनी । क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्चक्रवालम्, आतपत्रमण्डलमयमिवान्तरिक्षम्, इभमदगन्धमय इव समीरणः, भूपालमयीव प्रजासृष्टिः, आभरणांशुमयीव वृष्टिः, किरीटमय इव दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् ॥
बलबहुलकोलाहलभीता इव धवलध्वजनिवहनिरन्तरावृता ययुः क्वापि दश दिशः । मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटावचूलसहस्रसंरुद्धम् अतिदूरमम्बरतलमपससार । प्रबलवेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजोधूसरताभीता इवार्ककिरणा मुमुचुः पुरोभागम् । इभकरशीकरनिर्वापणत्रस्त इवातपत्रसंछादितातपो दिवसो ननाश । क्रमेण प्रसर्पतो बलस्य पुरः प्रधावती जनकदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुररवविमिश्रेण च वाजिनां हेषारवेण, अनवरतकर्णतालस्वरसंपृक्तेन च दन्तिनामाडम्बररवेण, मङ्गलशङ्खशब्दसंवर्धितध्वनीनां च प्रयाणपटहानां निनादेन, मुहुर्मुहुरितस्ततस्ताड्यमानानां डिण्डिमानां च निस्वनेन, जर्जरीकृतश्रवणपुटस्य मूर्छेवाभवज्जनस्य ॥
क्रमेण च विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोदफेनपाण्डुना क्षितिक्षोदेन । बहुलरजोधूसरितमशिशिरकिरणबिम्बमवचूलचामरमिव निष्प्रभमभवत् । दुकूलपट्टधवला कदलिकेव कलुषतामाजगाम गगनापगा । नरपालबलभरमतिगुरुमसहमाना पुनरिव भारावतारणार्थममरलोकमारुरोह रजोमिषेण मही ॥
॥ इति जयशब्दः, सेनानिनादः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.