Loading data... On slow networks this could take a few minutes.
100%
॥ अथ उपदेशसमाप्तिः, यौवराज्याभिषकम् ॥
तदेवंप्राये अतिकुटिलकष्टचेष्टासहस्रदारुणे राज्यतन्त्रेऽस्मिन्, महामोहकारिणि च यौवने, कुमार, तथा प्रयतेथाः ; यथा नोपहस्यसे जनैः, न निन्द्यसे साधुभिः, न धिक्क्रियसे गुरुभिः, नोपालभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः । यथा च न प्रहस्यसे विटैः, न प्रतार्यसे कुशलैः, नावलुप्यसे सेवकवृकैः, न प्रलोभ्यसे वनिताभिः, नापह्रियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा च महता प्रयत्नेन समारोपितसंस्कारः । तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि । तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे — विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्यौवराज्याभिषेकमङ्गलम् । कुलक्रमागतामुद्वह पूर्वपुरुषैरूढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय बन्धुवर्गम् । अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन्विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति " इत्येतावदभिधायोपशशाम ॥
उपशान्तवचसि शुकनासे, चन्द्रापीडस्ताभिरमलाभिरुपदेशवाग्भिः प्रक्षालित इवोन्मीलित इव पवित्रीकृत इवोद्भासित इव प्रीतहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम ॥
ततः कतिपयदिवसापगमे च, राजा स्वयमुक्षिप्तमङ्गलकलशः सह शुकनासेन, पुण्येऽहनि, पुरोधसा संपादिताशेषराज्याभिषेकमङ्गलम् अनेकनरपतिसहस्रपरिवृतः, सर्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो नदीभ्यः सर्वेभ्यश्च सागरेभ्यः समाहृतेन सर्वौषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृहीतेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच । अभिषेकसलिलार्द्रदेहं च तं लतेव पादपान्तरं निजपादपममुञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राज्यलक्ष्मीः । अनन्तरमखिलान्तःपुरपरिवृतया च प्रेमार्द्रहृदयया विलासवत्या स्वयमापादतलादामोदिना चन्दनेनानुलिप्तमूर्तिः, तत्कालप्रतिपन्नवेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारणः, सभामण्डपमुपगम्य, काञ्चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारोह ॥
आरूढस्य चास्य कृतयथोचितसकलराजलोकसंमानस्य मुहूर्तं स्थित्वा दिग्विजयप्रयाणशंसी प्रस्थानदुन्दुभिरामन्थरं दध्वान । ततो दुन्दुभिरवमाकर्ण्य ' जय जय ' इति च सर्वतः समुद्घुष्यमाणजयशब्दः, सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैरनुगम्यमानो नरपतिसहस्रैः,आस्थानमण्डपान्निरगात् । निर्गत्य च पूर्वारूढया पत्रलेखया समध्यासितामुचितमङ्गल्यालङ्कारां करेणुकामधिरुह्य, मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्यमाणातपो निर्गन्तुमारेभे ॥
॥ इति उपदेशसमाप्तिः, यौवराज्याभिषकम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.