प्रभातायां च निशीथिन्याम्, समुत्थाय समभ्यनुज्ञातः पित्रा, अभिनवमृगयाकौतुकावकृष्यमाणहृदयः, भगवत्यनुदित एव सहस्ररश्मी, आरुह्येन्द्रायुधम्, अग्रतो बालेयप्रमाणानाकर्षद्भिश्चामीकरशृङ्खलाभिः कोलयकान् कोदण्डपाणिभिः श्वपोषकैरनवरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाणगमनोत्साहः, बहुगजतुरगपदातिपरिवृतो वनं ययौ । तत्र च कर्णान्तावकृष्टमुक्तैर्नाराचैर्वनवराहान् केसरिणः कुरङ्गकांश्च सहस्रशो जघान । अन्यांश्च जीवत एव महाप्राणतया स्फुरतो जग्राह ॥
समारूढे च मध्यमह्नः सवितरि, वनात्, स्नानोत्थितेनेव श्रमसलिलबिन्दुवर्षमनवरतमुज्झता श्रमशिथिलमुखगलितफेनिलरुधिरलवेनेन्द्रायुधेनोहमानः, दूरविच्छिन्नेन पदातिपरिजनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्गमाधिरूढैरल्पावशिष्टैः सह राजपुत्रैः ' एवं मृगपतिः, एवं वराहः, एवं शरभः ' इति तमेव मृगयावृत्तान्तमुच्चारयन्, स्वभवनमाजगाम ॥
अवतीर्य च तुरङ्गमात् ससंभ्रमप्रधावितपरिजनोपनीते समुपविश्यासने, वारवाणमवतार्य, अपनीय च शेषं तुरङ्गमाधिरोहणोचितं वेषपरिग्रहम्, इतस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्तं विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथां स्नानभूमिमगात् । निर्वर्तिताभिषेकव्यापारस्य च कृतदेवतार्चनस्याकाङ्गरागभूमौ समुपविष्टस्य, राज्ञा विसर्जिता राजकुलपरिचारिकाः पटलकविनिहितानि विविधान्याभरणानि माल्यान्यङ्गरागान्वासांसि चादाय, पुरतस्तस्योपतस्थुः, उपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथमं स्वयमुपलिप्य वैशम्पायनम्, उपरचिताङ्गरागः, दत्त्वा च समीपवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि, आहारमण्डपमगच्छत् ॥
तत्र च द्विगुणीकृतकुथासनोपविष्टः, समीपोपविष्टेन तद्गुणोपवर्णनपरेण वैशम्पायनेन यथार्हभूमिभागोपवेशितेन राजपुत्रलोकेन ' इदमस्मै दीयताम्, इदमस्मै दीयताम् ' इति प्रसादविशेषदर्शनसंवर्धितसेवारसेनाहारविधिमकरोत् । उपस्पृश्य च, गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वा, इन्द्रायुधसमीपमगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्रायालापाः कथाः कृत्वा, स्वयमेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव क्रमेणावलोक्य राजानम्, आगत्य निशामनैषीत् ॥
॥ इति चन्द्रापीडस्य आखेटवर्णना, चन्द्रापीडस्य विश्रामः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.