समन्ततो विविधशास्त्राञ्जनोन्मीलितबुद्धिलोचनैः शाक्यमुनिशासनपथधौरेयै रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानं शुकनासगृहद्वारमासाद्य, राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरङ्गादवततार । द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य, नवनवसुधावदातप्रासादसहस्रनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश । प्रविश्य चानेकनरेन्द्रसहस्रमध्योपविष्टमपरमिव पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे ॥
शुकनासस्तं ससंभ्रममुत्थायानुपूर्व्येणोत्थितराजलोकः सादरमभिमुखदत्ताविरलपदः प्रहर्षविस्फारितलोचनागतानन्दजलकणः सह वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनम्, अवनावेव राजपुत्रः समुपाविशत् । तदनु च वैशम्पायनः ॥
समुपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजासनम् अवनितलमभजत । स्थित्वा च तूष्णीं क्षणमिव शुकनासः समुद्गतप्रीतिपुलकैरङ्गैरावेद्यमानहृदयहर्षप्रकर्षः, तमब्रवीत् — “ तात चन्द्रापीड, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारूढयौवनमालोक्य भवन्तम्, सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अद्य समृद्धाः सर्वा गुरुजनाशिषः । अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः। न ह्यपुण्यभाजां भवादृशास्त्रिभुवनविस्मयहेतवः पुत्रतां प्रतिपद्यन्ते । क्वेदं वयः । क्वेयममानुषी शक्तिः । क्व चेदमशेषविद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजाः, यासां भरतभगीरथप्रतिमो भवानुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुंधरया, ययासि भर्ता समासादितः । सर्वथा कल्पकोटीमहावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा ” इत्यभिधाय च, स्वयमाभरणवसनकुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयाञ्चकार ।
विसर्जितश्चोत्थायान्तःपुरं प्रविश्य, दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानाम्, निर्गत्य समारुह्येन्द्रायुधम्, पित्रा पूर्वकल्पितं प्रतिच्छन्दकमिव राजकुलस्य कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य, सह तेन राजपुत्रलोकेनाभिषेकादिकमशनावसानमकरोद्दिवसविधिम् । अभ्यन्तरे च स्वशयनीयगृह एवेन्द्रायुधस्यावस्थानमकल्पयत् ॥
एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । गगनतलादवतरन्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्रं रविमण्डलमुन्मुक्तपादं पपात । कमलिनीपरिमलपरिचयागतालिमालाकुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे ॥
क्रमेण च प्रतीचीकर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, कमलिनीनिपीतमातपमुन्मूलयितुमन्धकारपल्लवेष्विव विशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैः शनैश्च गलिते सन्ध्यारागे, दिक्षु दिक्षु विक्षिप्तेषु सन्ध्यादेवतार्चनबलिपिण्डेषु, कृतराजस्वस्त्ययनेषु निष्क्रामत्सु पुरोहितेषु, प्रज्वलितदीपिकामात्रप्रतिबिम्बचुम्बितेषु कृतविकचचम्पकदलोपहारेष्विव मणिभूमिकुट्टिमेषु, सूर्यकान्तमणिभ्य इव सङ्क्रान्तानलेषु ज्वलल्सु मानिनीनां शोकविधुरेषु हृदयेषु, प्रवृत्ते प्रदोषसमये, चन्द्रापीडो राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा, दृष्ट्वा च विलासवतीम्, आगत्य स्वभवनम्, शयनतलमधिशिश्ये ॥
॥ इति शुकनासमनोरमादर्शनम्, प्रदोषवर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.