Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पत्रलेखावर्णना ॥
अपरेद्युश्च प्रभातसमय एव सर्वान्तःपुराधिकृतम्, अनुमार्गागतया शक्रगोपकालोहितरागेणांशुकेन रचितावगुण्ठनया समसुवृत्ततुङ्गनासिकया विकसितपुण्डरीकधवललोचनया महानुभावाकारयानुगम्यमानं कन्यकया, कैलासनामानं कञ्चुकिनमायान्तमपश्यत् ॥
स कृतप्रणामः समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञापयामास — ' कुमार, महादेवी विलासवती समाज्ञापयति — “ इयं खलु कन्यका महाराजेन पूर्वं कुलूतराजधानीमवजित्य कुलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपनीता । सा मया विगतनाथा राजदुहितेति समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुपलालिता संवर्धिता च । तदियमिदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनीति कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । सुहृदिव सर्वविस्रम्भेष्वभ्यन्तरीकरणीया । दीर्घकालसंवर्धितस्नेहतया सुतायामिव हृदयमस्यामस्ति मे । नियतं स्वयमेवेयमतिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति । अविदितशीलश्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रयतितव्यम्, यथेयमतिचिरमुचिता परिचारिका ते भवति ” इत्यभिधाय विरतवचसि कैलासे, कृताभिजातप्रणामां पत्रलेखामनिमिषलोचनं सुचिरमालोक्य, चन्द्रापीडः ' यथाज्ञापयत्यम्बा ' इत्येवमुक्त्वा कञ्चुकिनं प्रेषयामास ॥
पत्रलेखा तु ततः प्रभृति दर्शनेनैव समुपजातसेवारसा न दिवा, न रात्रौ, न सुतस्य, नासीनस्य, नोत्थितस्य, न भ्रमतः, न राजकुलगतस्य, छायेव राजसूनोः पार्श्वं मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । आत्महृदयादव्यतिरिक्तामिव चैनां सर्वविस्त्रम्भेष्वमन्यत ॥
एवं समतिक्रामत्सु केषुचिद्दिवसेषु, राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः, प्रतीहारानुपकरणसंभारसंग्रहार्थमादिदेश ॥
॥ इति पत्रलेखावर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.