॥ अथ चन्द्रापीडस्य मातापितृदर्शनवर्णना ॥
ससंभ्रमोपगतैश्च कृतप्रणामैः प्रतीहारमण्डलैरुपदिश्यमानमार्गः, पदे पदे चाभ्यन्तरविनिर्गताभिराचारकुशलाभिरन्तःपुरवृद्धाभिः क्रियमाणावतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्रसंकुलानि सप्त कक्ष्यान्तराण्यतिक्रम्य, कुलक्रमागतैरुदात्तान्वयैरनुरक्तैः सर्वतः शरीररक्षाधिकारनियुक्तैः पुरुषैः परिवृतं हंसधवलशयनतले निषण्णं पितरमपश्यत् ॥
' आलोकय ' इति च प्रतीहारवचनानन्तरमतिदूरावनतेन शिरसा कृतप्रणामम् ' एह्येहि ' इत्यभिदधानः, दूरादेव प्रसारितभुजयुगलः, तं पिता विनयावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीयमात्मताम्बूलकरङ्कवाहिन्या सत्वरमासनीकृतम् ' अपनय ' इति शनैर्वदन्नग्रचरणेन समुत्सार्य, चन्द्रापीडः क्षितितल एव निषसाद । अनन्तरनिहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्तमिव स्थिस्था ' गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसा यथाक्रमं सर्वा जननीर्दर्शनेनानन्दय ' इति विसर्जितः पित्रा, सविनयमुत्थाय, निवारितपरिजनः, वैशम्पायनद्वितीयः, अन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवर्म अन्तःपुरमाययौ ।
तत्र धवलकञ्चुकावच्छन्नशरीरैरनेकशतसंख्यैः समन्तात्परिवृतां शुद्धान्तान्तर्वशिकैः, अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभिर्भूतपूर्वाः पुण्याः कथाः कथयन्तीभिर्जरत्प्रव्रजिताभिर्विनोद्यमानाम्, समुपसृत्य मातरं ननाम ।
सा तु तं ससंभ्रममुत्थाप्य, सत्यप्याज्ञासंपादनदक्षे पार्श्वपरिवर्तिनि परिजने स्वयमेव कृतावतरणका, हृदयेनान्तःशुभशतान्यभिध्यायन्ती, मूर्धन्युपाघ्राय, तं सुचिरमाशिश्लेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाश्लिष्टवैशम्पायना स्वयमुपविश्य विनयादवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमारोपितवती । ससंभ्रमपरिजनोपनीतायामासन्द्यामुपविष्टे च वैशम्पायने, चन्द्रापीडं पुन:पुनरालिङ्ग्य, ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत् — “ वत्स, कठिनहृदयस्ते पिता, येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमियन्तं कालं लम्भिता । कथमसि सोढवानतिदीर्घामिमां गुरुजनयन्त्रणाम् । अहो बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो विगलितशिशुजनक्रीडाकौतुकलाघवमर्भके त्वयि हृदयम् । अहो गुरुजनस्योपरि भक्तिरसाधारणी । सर्वथा यथा पितुः प्रसादात्समस्ताभिरुपेतो
विद्याभिरालोकितोऽसि, एवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि ” इत्येवमभिधाय लज्जास्मितावनतं कपोले पर्यचुम्बदेनम् । एवं च तत्रापि नातिचिरमेव स्थित्वा, क्रमेण सर्वान्तःपुराणि दर्शनेनानन्दयामास । निर्गत्य च राजकुलद्वारावस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः, शुकनासं द्रष्टुमयासीत् ॥
॥ इति चन्द्रापीडस्य मातापितृदर्शनवर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.