चन्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितम्, अनन्तरतुरंगमाधिरूढेनानुगम्यमानो वैशम्पायनेन, स्थूलमुक्ताकलापजालकावृतेनोपरि चिह्नीकृतं केसरिणमुद्वहतातिमहता कार्तस्वरदण्डेन ध्रियमाणेनातपत्रेण निवारितातपः, जय जीवेति च मधुरवचसा मङ्गलप्रायमनवरतमुच्चैः पठता वन्दिजनेन स्तूयमानः, नगराभिमुखः प्रतस्थे । न क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्णं नगरमार्गमनुप्राप्तमवलोक्य, सर्व एव परित्यक्तसकलव्यापारो जनः समजनि । “ अहो वयमतिपुण्यभाजः, यदिमाममानुषीमस्याकृतिमन्तःसमारूढप्रीतिरसनिष्यन्दविस्तारितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय ” इति वदन्नारचितप्रणामाञ्जलिर्नगरलोकः प्रणनाम । सर्वतश्च समपावृतकवाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकुतूहलान्नगरमपि समुन्मीलितलोचननिवहमिवाभवत् । क्रमेण च चन्द्रापीडो राजद्वारमासाद्य तुरङ्गमादवततार ॥
अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य, पुरः सविनयं प्रस्थितेन वलाहकेनोपदिश्यमानमार्गः, त्रिभुवनमिव पुञ्जीभूतम्, आगृहीतकनकवेत्रलतैः सितवारवाणधारिभिः महाप्रमाणैर्दिवानिशमालिखितैरिवोत्कीर्णैरिव तोरणस्तम्भनिषण्णैर्द्वारपालैरनुज्झितद्वारदेशम्, अन्तर्गतायुधनिवहाभिराशीविषकुलसङ्कुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशालाभिरुपेतम्, अनवरतसङ्गीतमृदङ्गध्वनिमामीलितलोचनत्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम्, उज्ज्वलपट्टकम्बलपटप्रावारितपृष्ठश्च भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनोपविष्टैधर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, आधिगतसकलग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखितसकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमानशासनशतसहस्रम्, आस्थानमण्डपगतेन च यथोचितासनोपविष्टेनं भावयता नरपतिकृतकाव्यसुभाषितानि गृह्णता कविगुणान् मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम्, एकदेशनिषण्णचामीकरशृङ्खलासंयतश्वगणम्, अनेककुब्जकिरातवर्षवरबधिरवामनकमूकसङ्कुलम्, इभपतिमदपरिमलामर्षजृम्भितैश्च निष्कूजद्भिः पञ्जरकेसरिभिरुद्भास्यमानम्, जलधरसनाथमिव कृष्णागुरुधूमपटलैः, सबालातपमिव रक्ताशोकैः, सतारागणमिव मुक्ताकलापैः, सवर्षासमयमिव धारागृहैः, सतटिल्लतमिव हेममयीभिर्मयूरयष्टिभिः, सगृहदैवतमिव सालभञ्जिकाभिः, उत्कृष्टकविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमानाभिनवार्थसञ्चयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, बलभद्रमिव कादम्बरीरसविशेषवर्णनाकुलम्, दिव्यमुनिगणमिव कलापिसनाथश्वेतकेतुशोभितं राजकुलं विवेश ॥
॥ इति चन्द्रापीडस्य विद्यालयात् निर्गमनम्, राजकुलवर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.