अथ वचनानन्तरमेव प्रवेशितम्, उभयतः खलीनकनककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्, ऊर्ध्वकरपुरुषप्राप्यपृष्टभागम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेषारवेण निर्भर्त्सयन्तमिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, त्रैलोक्यसञ्चरणसहायमिव मारुतस्य, वेगसब्रह्मचारिणमिव मनसः, सकलभुवनार्घार्हमश्वातिशयमिन्द्रायुधमद्राक्षीत् ॥
दृष्ट्वा च तमदृष्टपूर्वमशेषलक्षणोपपन्नमश्वरूपातिशयम्, अतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयो हृदयम् । आसीश्चास्य मनसि — “ सरभसविवर्तनवलितवासुकिभ्रमितमन्दरेण मथ्नता जलनिधिजलम्, इदमश्वरत्नमनभ्युद्धरता, किं नाम रत्नमुद्धृतं सुरासुरलोकेन । उच्चैःश्रवसा विस्मितहदयो वञ्चितः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरतामियता कालेन नायमुपगतः, येनाद्यापि तां गरुडारोहणव्यसनितां न परित्यजति । अहो खल्वतिशयितत्रिदशराजसमृद्धिरियं तातस्य राज्यलक्ष्मीः, यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरणतामुपगच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । दैवतान्यपि हि मुनिशापवशादुज्झितनिजशरीरकाणि शापवचनोपनीतानि शरीरान्तराण्यध्यासत एव । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तःकरणमस्य दिव्यताम् ” इति विचिन्तयन्नेवारुरुक्षुरासनादतिष्ठत् ॥
मनसा च, तं तुरंगममनुपसृत्य ' महात्मन्नर्वन्, योऽसि सोऽसि । नमोऽस्तु ते । सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि देवतान्यप्यानुचितपरिभवभाञ्जि भवन्ति ' इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरःकेसरसटाहत्याकूणिताकेकरतारकेण तिर्यक्चक्षुषा विलोक्य हेषारवमकरोत् । अथानेन मधुरहेषितेन दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः । समारुह्य तं प्रादेशमात्रमिव त्रैलोक्यमखिलं मन्यमानो निर्गत्य, अतिनिष्ठुरेण खुरपुटानां रवेण हेषितेन च बधिरीकृतसकलभुवनविवरमदृष्टपर्यन्तमश्वसैन्यमपश्यत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव सञ्चचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्यशिरसः परस्परोत्पीडनकुपिततुरंगमनिवारणायस्ता राजपुत्रास्तं पर्यवारयन्त । एकैकशश्च प्रतिनामग्रहणमावेद्यमाना वलाहकेन ते दूरावनतैः शिरोभिः प्रणेमुः ॥
॥ इति इन्द्रायुधवर्णनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.