Loading data... On slow networks this could take a few minutes.
100%
॥ अथ चन्द्रापीडस्य यौवनारम्भः, राजाज्ञानिवेदनम् ॥
सहजा चास्याजस्रमभ्यस्यतो वृकोदरस्येव शैशव एवाविर्बभूव सर्वलोकविस्मयजननी महाप्राणता । एकैकेन कृपाणप्रहारेण बाल एवं तालतरून् मृणालदण्डानिव लुलाव । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः. सर्वाभिरन्याभिः कलाभिरनुचकार तं वैशम्पायनः । चन्द्रापाडस्य तु सकलकलाकलापपरिचयबहुमानेन शुकनासगौरवेण सहपांसुक्रीडनतया च सर्वविस्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तं न क्षणमपि विरहयांचकार ॥
एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य यौवनारम्भः प्रादुर्भवन् रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनोरथैः सहापूर्यतारुदण्डद्वयम् । स्वरेण सह गम्भीरतामाजगाम हृदयम् ॥
एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसकलकलाविज्ञानम् अधीताशेषविद्यं चावगम्य, अनुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं वलाहकनामानमाहूय प्राहिणोत् ॥
स गत्वा विद्यागृहं द्वाःस्थैः समावेदितः प्रविश्य, शिरसा प्रणम्य, सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमात्रं वलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजिज्ञापत् — “ कुमार, महाराजः समाज्ञापयति — ' पूर्णा नो मनारथाः । अधीतानि शास्त्राणि । शिक्षिताः सकलाः कलाः । गतोऽसि सर्वास्वायुधविद्यासु परां प्रतिष्ठाम् । अनुमतोऽसि निर्गमाय विद्यागृहात्सर्वाचार्यैः । उपगृहीतशिक्षमवगतसकलकलाकलापं पौर्णमासीशशिनमिव नवोद्गतं पश्यतु त्वां जनः । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमत्रभवतो दशमो वत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपिण्डितेनामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलाभ्यो मातृभ्यः, अभिवाद्य च गुरून्, अपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि । सम्मानय राजलोकम् । पूजय द्विजातीन् । परिपालय प्रजाः । आनन्दय बन्धुवर्गम् । ' अयं च ते त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा ' जलधिजलादुत्थितमयोनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम् ' इति सन्दिश्य प्रहितः । तदयमनुगृह्यतामधिरोहणेन । इदं च विनयोपपन्नानां कुलक्रमागतानां राजपुत्राणां सहस्रं परिचर्यार्थमनुप्रेषितं तुरङ्गमाधिरूढं द्वारि प्रणामलालसं प्रतिपालयति ” इत्यभिधाय विरतवचसि वलाहके, चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा, नवजलधरध्वानगम्भीरया गिरा ' प्रवेश्यतामिन्द्रायुधः ' इति निर्जिगमिषुरादिदेश ॥
॥ इति चन्द्रापीडस्य यौवनारम्भः, राजाज्ञानिवेदनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.