एवं कथयत्येव तस्मिन्, ससंभ्रमापसृतेन राजलोकेन दत्तमार्गः, त्वरितगतिरागत्य, मङ्गलनामा पुरुषः पादयोः प्रणम्य, राजानं व्यजिज्ञपत् — “ देव, दिष्ट्या वर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव । जय च पृथिवीम् । त्वत्प्रसादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमाभिधानायां तनयो जातः । श्रुत्वा देवः प्रमाणम् ” इति ॥
अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रत्यवदत् — “ अहो कल्याणपरंपरा । सत्योऽयं जनप्रवादः — यद्विपद्विपदम्, संपत्संपदमनुबध्नातीति ” इत्यभिधाय प्रीतिविकसितमुखः सरंभसमालिङ्ग्य विहसन् स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार । उत्थाय च तथैव तेन चारणगणेन विविधमुखवाद्यकृतकोलाहलेन पठता गायता चानुगम्यमानः, शुकनासभवनं गत्वा द्विगुणतरमुत्सवमकारयत् ॥
अतिक्रान्ते च षष्ठीजागरे, प्राप्ते दशमेऽहनि, पुण्ये मुहूर्ते, गाः सुवर्णं च कोटिशो ब्राह्मणसात्कृत्वा, “ मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः ” इति स्वप्नानुरूपमेव राजा स्वसूनोः चन्द्रापीड इति नाम चकार । अपरेद्युः शुकनासोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रियाः, राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे । क्रमेण कृतचूडाकरणादिबालक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य ॥
तारापीडः क्रीडाव्यासङ्गविघातार्थं बहिर्नगरादनुसिप्रम् अर्धक्रोशमात्रायामम्, अतिमहता तुहिनगिरिशिखरमालानुकारिणा सुधाधवलेन प्राकारमण्डलेन परिवृतम्, अधःकल्पितव्यायामशालं विद्यामन्दिरमकारयत् । सर्वविद्याचार्याणां च सङ्ग्रहे प्रयत्नमतिमहान्तमन्वतिष्ठत् ॥
तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशेषशिशुजनक्रीडाव्यासङ्गम्, अनन्यमनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयांवभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनमालोकयामास राजा ॥
चन्द्रापीडोऽप्यनन्यहृदयतया तथा नियन्त्रितो राज्ञा, अचिरेणैव कालेन यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यरुपदिश्यमानाः सर्वा विद्या जग्राह । तथा हि — पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायामविद्यासु, सर्वेष्वप्यायुधविशेषेषु, रथचर्यासु, गजपृष्ठेषु, तुरंगमेषु, वीणावेणुमुरजप्रभृतिषु वाद्येषु, भरतादिप्रणीतेषु नृत्तशास्त्रेषु, नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु, शकुनिरुतझाने, यन्त्रप्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, प्लुतिषु, आरोहणे, सर्वलिपिषु, सर्वदेशभाषासु, अन्येष्वपि कलाविशेषेषु, परं कौशलमवाप ॥
॥ इति पुत्रजन्मोत्सवः, चन्द्रापीडस्य शिक्षा ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.