Loading data... On slow networks this could take a few minutes.
100%
॥ अथ राज्ञः गर्भवार्तावगमनम्, चन्द्रापीडजन्म, सूतिकागृहवर्णनम् ॥
ससंभ्रमपरिजनप्रसारितकरतलावलम्बनावष्टम्भेन वामजानुविन्यस्तहस्तपल्लवमुत्तिष्ठन्ती विलासवतीम् — ' अलमलमत्यादरेण । देवि, नोत्थातव्यम् ' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोपच्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् ॥
अथ तामुपारूढगर्भामालोक्य, हर्षभरमन्थरेण मनसा प्रस्तुतपरिहासो राजा — ' देवि, शुकनासः पृच्छति — यदाह कुलवर्धना किमपि, तत्किं तथैव ' इत्युवाच । अथ अव्यक्तस्मितच्छुरितकपोलाधरलोचना लज्जया विलासवती तत्क्षणमधोमुखी तस्थौ ॥
ततः क्रमेण यथासमीहितगर्भदोहदसंपादनप्रमुदिता, पूर्णे प्रसवसमये, पुण्येऽहनि, अनवरतगलन्नाडिकाकलितकालकलैर्बहिरागृहीतच्छायैर्गणकैगृहीते लग्ने, प्रशस्तायां वेलायाम्, सकललोकहृदयानन्दकारिणं विलासवती सुतमसूत ॥
तस्मिञ्जाते, सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशतसंक्षोभचलितक्षितितलः, विस्फार्यमाणान्तःपुरजनाभरणझंकारमनोहरः, पूर्णपात्राहरणविलुप्यमानवसनभूषणः, राजकुले दिष्टवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं च मङ्गलपटहपटुरवसंवर्धितेन अनेकजनसहस्रकलकलबहुलेन त्रिभुवनमापूरयता उत्सवकोलाहलेन सान्तःपुराः सप्रकृतयः सराजलोकाः सबालवृद्धा ननृतुरागोपालमुन्मत्ता इव हर्षनिर्भराः प्रजाः ॥
पार्थिवस्तु तनयाननदर्शनोत्सवहृतहृदयोऽपि, दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते, निवारितनिखिलपरिजन:, शुकनासद्वितीयः, मणिमयमङ्गलकलशयुगलाशून्येन संनिहितकनकमयहलमुसलयुगेन बन्दनमालान्तरालघटितघण्टागणेन द्वारदेशेन विराजमानम्, उभयतश्च द्वारपक्षकयोर्मर्यादानिपुणेन हरिद्राद्रवविच्छुरणपरिपिञ्जराम्बरधारिणीं भगवतीं षष्ठीदेवीं कुर्वता विन्यस्तालक्तकपटलपाटलमध्यमभागौ सूर्याचन्द्रमसावाबध्नता चन्दनजलधवलितेषु भित्तिशिखरभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीतपिष्टपङ्काङ्कितां वर्धमानपरम्परामन्यानि च प्रसवगृहमण्डनमङ्गलानि संपादयता पुरन्ध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयतविविधगन्धकुसुममालालंकृतजरच्छागम्, अध्ययनमुखरद्विजगणविप्रकीर्यमाणशान्त्युदकलवम्, अनेकवृद्धाङ्गनारब्धसूतिकामङ्गलगीतिकामनोहरम्, अविच्छिन्नपठ्यमाननारायणनामसहस्रम्, सूतिकागृहमपश्यत् । अम्भः पावकं च स्पृष्ट्वा विवेश ॥
प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलासवत्याः, स्वप्रभासमुदयोपहतगर्भगृहप्रदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डलमिव सवितारम्, अपरसन्ध्यालोहितबिम्बमिव चन्द्रमसम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रचितावयवम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आह्लादहेतुमात्मजं ददर्श । विगतनिमेषनिश्चलपक्ष्मणा चक्षुषा पिबन्निव मनोरथसहस्रप्राप्तदर्शनं सस्पृहमीक्षमाणस्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने । समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्गप्रत्यङ्गान्यस्य निरूपयन्, प्रीतिविस्तारितलोचनो भूमिपालमवादीत् — “ देव, पश्य पश्य अस्य कुमारस्य गर्भसंपीडनवशादपरिस्फुटावयवशोभस्यापि माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथा हि — अस्य सन्ध्यांशुरक्तबालशशिकलाकारे ललाटपट्टे नलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । रक्तोत्पलकलिकालोहिततलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते ” इति ।
॥ इति राज्ञः गर्भवार्तावगमनम्, चन्द्रापीडजन्म, सूतिकागृहवर्णनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.