॥ अथ विलासवतीगर्भः, नरपतिहर्षः ॥
कतिपयदिवसापगमे च देवताप्रसादात् सरसीमिव प्रतिमाशशी विवेश गर्भो विलासवतीम् । शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा मन्दं मन्दं सञ्चचार । मुहुर्मुहुरनुबद्धविजृम्भिकम् आजिह्मितलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वयमनेकरसवाञ्छितपानभोजनाम् आलोक्य, इङ्गितकुशलः परिजनो विज्ञातवान् ॥
अथ तस्याः सर्वपरिजनप्रधानभूता कुलवर्धना नाम महत्तरिका, प्रशस्ते दिवसे प्रदोषवेलायाम्, अभ्यन्तरास्थानमण्टपगतम्, अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन समुपारूढविस्रम्भनिर्भरास्तास्ताः कथाः शुकनासेन सह कुर्वाणं भूमिपालमुपसृत्य, रहः कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् ॥
तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्गस्य राज्ञः शुकनासमुखे तत्क्षणं पपात चक्षुः । अनालोकितपूर्वं तु हर्षप्रकर्षमभिसमीक्ष्य भूपतेः, कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्ट्वा, तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारणमपश्यन्, शुकनासः स्वयमुत्प्रेक्ष्य, समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रकाशमाबभाषे — “ देव, किमस्ति किञ्चित् तस्मिन् स्वप्नदर्शने सत्यम् ? अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना दृश्यते । देवस्यापीदमानन्दजलपरिप्लुतं तरलतारकं विकसदावेदयति महत्प्रहर्षकारणमीक्षणयुगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सुकोत्सुकं क्लाम्यति मे मनः । तदावेदयतु देवः किमिदम् ” इत्युक्तवति तस्मिन्, राजा विहस्याब्रवीत् — ' यदि सत्यमनया यथा कथितं तथा, सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमप्यहं कुलवर्धनामेवंविधानां कल्याणानामसंभावितमात्मानं मन्यमानः, विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ, स्वयमेव गत्वा किमत्र सत्यमिति देवीं पृष्टा ज्ञास्यामि ' इत्यभिधाय विसृज्य सकलनरेन्द्रलोकम्, उन्मुच्य स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा, सह शुकनासेनोत्थाय, हर्षविशेषनिर्भरेण त्वर्यमाणो मनसा, पुरः ससंर्पिणीनामनिललोलस्थूलशिखानां प्रदीपिकानामालोकेन समुत्सार्यमाणकक्ष्यान्तरतिमिरसंहतिरन्तःपुरमयासीत् ॥
तत्र च सुकृतरक्षासंविधाने नवसुधानुलेपनधवलिते प्रज्वलितमङ्गलप्रदीपे पूर्णकलशाधिष्ठितद्वारपक्षके वासभवने, भूतिलिखितपत्रलताकृतरक्षापरिक्षेपं शिरोभागविन्यस्तधवलनिद्रामङ्गलकलशं गर्भोचितं शयनतलमधिशयानाम्, कनकपात्रपरिगृहीतैरविच्छिन्नविरलावस्थितदधिलवैरग्रथितकुसुमाञ्जलिसनाथैः पूर्णभाजनैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणावतरणकमङ्गलां विलासवतीं ददर्श ॥
॥ इति विलासवतीगर्भः, नरपतिहर्षः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.