Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पुत्रप्राप्त्यै कृतं पूजादिकम्, राज्ञः स्वप्नः, शुकनासस्य हर्षः स्वप्नश्च ॥
निर्गते च तस्मिन्, मन्दीभूतशोका विलासवती यथाक्रियमाणाभरणपरिग्रहादिकमुचितं दिवसव्यापारमन्वतिष्ठत् । ततः प्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसपर्यासु चादरवती बभूव । यद्यच्च किञ्चित्कुतश्चिच्छुश्राव, गर्भतृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत् । अनवरतदह्यमानगुग्गुलुबहुलधूपान्धकारितेषु चण्डिकागृहेषु धवलाम्बरशुचिमूर्तिरुपोषिता हरितकुशोपच्छदेषु मुसलशयनेषु सुष्वाप । पुण्यसलिलपूर्णैर्विविधकुसुमफलोपेतैः क्षीरतरुपल्लवलाञ्छनैः सर्वरत्नगर्भैः शातकुम्भकुम्भैर्गोकुलेषु वृद्धगोपवनिताकृतमङ्गलानां लक्षणसंपन्नानां गवामधः सस्नौ । प्रतिदिवसमुत्थायोत्थाय सर्वरत्नोपेतानि हैमानि तिलपात्राणि ब्राह्मणेभ्यो ददौ । महानरेन्द्रलिखितमण्डलमध्यवर्तिनी विविधबलिदानानन्दितदिग्देवतानि बहुलपक्षचतुर्दशीनिशासु चतुष्पथे स्नपनमङ्गलानि भेजे । प्रसिद्धेषु नागकुलह्रदेषु ममज्ज | अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा ववन्दे । दोलायमानमणिवलयेन पाणियुगलेन स्नाता स्वयमखण्डसिक्थसंपादितं रजतपात्रे परिगृहीतं वायसेभ्यो दध्योदनबलिमदात् । स्वयमुपहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशान्नग्नक्षपणकान्पप्रच्छ । विप्रश्निकावचनानि बहुमेने। निमित्तज्ञानुपचचार । शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्धपरम्परागमागतानि रहस्यान्यङ्गीचकार | दर्शनागतं द्विजजनमात्मजदर्शनोत्सुका वेदश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव । गोरोचनालिखितभूर्जपत्रगर्भान्मन्त्रकरण्डकानुवाह । परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम। तन्निमित्तानि च जग्राह | शिवाभ्यो मांसबलिपिण्डमनुदिनं निशि समुत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु शिवबलिमुपजहार ॥
एवं च गच्छति काले, कदाचिद्राजा क्षीणभूयिष्ठायां रजन्याम्, स्वप्ने सितप्रासादशिखरस्थिताया विलासवत्या आनने सकलकलापरिपूर्णमण्डलं शशिनं प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय, तस्मिन्नेव क्षणे समाहूय, शुकनासाय तं स्वप्नमकथयत् । स तं समुपजातहर्षः प्रत्युवाच — “ देव, संपन्नाः सुचिरादस्माकं प्रजानां च मनोरथाः। कतिपयैरेवाहोभिरसंदहमनुभवति स्वामी सुतमुखकमलावलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने धौतसकलवाससा शान्तमूर्तिना दिव्याकृतिना द्विजेन विकचं पुण्डरीकमुत्सङ्गे देव्या मनोरमाया निहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रपातीनि शुभानि निमित्तानि । अवितथफलाश्च प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । सर्वथा न चिरेण मान्धातारमिव धौरेयं सर्वराजर्षीणां भुवनानन्दहेतुमात्मजं जनयिष्यति देवी ; येनेयमविच्छन्नसन्ताना भविष्यति कुलसंततिः स्वामिनः ” इति । एवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताभ्यां स्वप्नाभ्यां विलासवतीमानन्दयाञ्चकार ॥
॥ इति पुत्रप्राप्त्यै कृतं पूजादिकम्, राज्ञः स्वप्नः, शुकनासस्य हर्षः स्वप्नश्च ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.