Loading data... On slow networks this could take a few minutes.
100%
॥ अथ विलासवतीसान्त्वनम् ॥
विरतवचनायां च तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद — “ देवि, किमत्र क्रियतां दैवायत्ते वस्तुनि । अतिमात्रमलं रुदितेन । न वयमनुग्राह्याः प्रायो देवतानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि । यावन्मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपादय देवतासु पूजाम्। ऋषिजनसपर्यासु दर्शितादरा भव । परं हि दैवतमृषयः । यत्नेनाराधिता यथासमीहितफलानामतिदुर्लभानामपि वराणां दातारो भवन्ति । श्रूयते हि — पुरा चण्डकौशिकप्रभावान्मगधेषु बृहद्रथो नाम राजा जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतवया विभण्डकमहामुनिसुतस्य ऋश्यशृङ्गस्य प्रसादादवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतास्वादसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवति । ' अहमपि खलु देवि, कदा समुपारूढगर्भभरालसामापाण्डुमुखीं देवीं द्रक्ष्यामि । कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनः । कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा मामानन्दयिष्यति देवी । कदा सर्वोषधिपिञ्जरजटिलकेशः, निहितरक्षाघृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपन्मिश्रभूतिलेशः, गोरोचनाचित्रकण्ठसूत्रग्रन्थिः, उत्तानशयः, दशनशून्यस्मिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिः, अन्तःपुरिकाकरतलपरम्परासञ्चार्यमाणमूर्तिः, अशेषजनवन्दितः, मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् । कदा मातुश्चरणयुगलरागोपयुक्तशेषेण पिण्डालक्तकरसेन वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि ' इत्येतानि च अन्यानि च मनोरथशतानि चिन्तयतोऽन्तः सन्तप्यमानस्य प्रयान्ति मे रजन्यः । मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः। शून्यमिव में प्रतिभाति जगत् । अफलमिव पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । आधीयतां धैर्ये धर्मे च धीः । धर्मपरायणानां हि सदा समीपसञ्चारिण्यः कल्याणसंपदो भवन्ति ” इत्येवमभिधाय, सलिलमादाय स्वयमाननमस्याः साश्रुलेखं ममार्ज । पुनः पुनश्च प्रियशतमधुराभिः शोकापनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वग्भिराश्वास्य, सुचिरं स्थित्वा, नरेन्द्रो निर्जगाम ॥
॥ इति विलासवतीसान्त्वनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.