अथ तस्य, चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभूत् त्रिभुवनविस्मयजननी सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम ॥
एकदा च स तदावासगतः, तां चिन्तास्तिमितदृष्टिना शोकमूकेन परिजनेन परिवृताम्, अनतिदूरवर्तिनीभिश्चान्तःपुरवृद्धाभिराश्वास्यमानाम्, अविरलाश्रुबिन्दुपातार्द्रीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोपविष्टां रुदतीं ददर्श ॥
कृतप्रत्युत्थानां च तां तस्यामेव पर्यङ्किकायामुपवेश्य, स्वयं चोपविश्य, अविज्ञातबाष्पकारणः, भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलौ, भूपालस्तामवादीत् — ' देवि, किमर्थमन्तर्गतगुरुशोकमन्थरमशब्दं रुद्यते ? ग्रथ्नन्ति हि मुक्ताफलजालकमिव बाष्पबिन्दुनिकरमेतास्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि ? बालातप इव रक्तारविन्दकोशयोः किमिति न पातितश्चरणयोरलक्तकरसः ? केन कारणेन न विभूषिता हारेण शिरोधरा ? इमां च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकामसंयमितालकिनीं ललाटरेखाम् ? प्रसीद, निवेदय देवि, दुःखनिमित्तम् । किं क्वचिन्मयापराद्धम्, अन्येन वा केनचिदस्मदुपजीविना परिजनेन ? अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्खलितमल्पमप्यात्मनस्त्वद्विषये । त्वदायत्तं हि मे जीवितं च राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम् ' इत्येवमभिधीयमाना
विलासवती यदा न किंचित्प्रतिवचः प्रतिपेदे, तदा विवृद्धबाष्पहेतुमस्याः परिजनमपृच्छत् ॥
अथ तस्यास्ताम्बूलकरङ्कवाहिनी सततप्रत्यासन्ना मकरिका नाम राजानमुवाच — 'देव, कुतो देवादल्पमपि परिस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपराद्धुम् । किं तु विफला किल चिरमस्मीत्ययमस्या देव्याः संतापः । सुमहांश्च कालः सन्तप्यमानायाः । प्रथममपि स्वामिनी शयनस्नानभोजनभूषणपरिग्रहादिषु समुचितेष्वपि दिवसव्यापारेषु कथं कथमपि परिजनप्रयत्नात्प्रवर्त्यमाना सशोकैवासीत् । देवहृदयपीडापरिजिहीर्षया न दर्शितवती विकारम् । अद्य तु चतुर्दशीति भगवन्तं महाकालमर्चितुमितो गतया तत्र महाभारते वाच्यमाने श्रुतम् — ' अपुत्राणां किल न सन्ति लोकाः शुभाः ; पुन्नाम्नो नरकात् त्रायत इति पुत्रः ' इति । एतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहारमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते, केवलमविरलबाष्पबिन्दुकलुषमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम् ' इत्यभिधाय विरराम ॥
॥ इति विलासवतीवर्णनम्, नृपस्य पत्नीशोककारणजिज्ञासा, विलासवतीशोककारणम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.