अजातपक्षतया च नातिस्थिरसंचारस्य, मुहुर्मुहुर्मुखेन पततः, मुहुस्तिर्यङ्निपतन्तम् आत्मानमेकया पक्षपाल्या संधारयतः, क्षितितलसंसर्पणभ्रमातुरस्य, अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुन्मुखस्य स्थूलस्थूलं श्वसतः, धूलिधूसरस्य संसर्पतो मम समभून्मनसि — ' अतिकष्टास्वप्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति सर्वप्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते, यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । अहो सोढपितृमरणशोकदारुणं येन मया जीव्यते । उपकृतमपि नापेक्ष्यते । खलं हि खलु मे हृदयम् । मया हि, लोकान्तरगतायाम् अम्बायां नियम्य शोकवेगम्, आप्रसवदिवसात् परिणतवयसापि सता तैस्तैरुपायैर्मत्संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितः, तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वामी प्राणाः । यदुपकारिणमपि तातमद्यापि क्वापि गच्छन्तं नानुगच्छन्ति । सर्वथा न कञ्चिन्न खलीकरोति जीविततृष्णा । यदीगवस्थमपि मामयमायासयति जलाभिलाषः । मन्ये च, अगणितपितृमरणशोकस्य निर्घृणतैव केवलमियं मम सलिलपानबुद्धिः। अद्यापि दूर एव सरस्तीरम्। अस्फुटानि हि श्रूयन्ते सारसरसितानि । दिवसस्य चेयमतिकष्टा दशा वर्तते । रविरम्बरतलमध्यवर्ती स्फुरन्तमातपम् अनवरतमनलधूलिनिकरमिव विकिरति करैः । अधिकामुपजनयति तृषामातपस्पर्शसंतप्तपांसुपटलदुर्गमा भूमिः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि | अप्रभुरस्म्यात्मनः। सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्योपपादयेत् ' इत्येवं चिन्तयत्येव मयि — तस्मात्सरसो नातिदूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा तापसकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा, सकलविषयोपभोगनिवृत्त्यर्थमुपपादितेन ललाटपट्टके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालङ्कृतः विषाणशिखरोत्खातामुद्वहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन तपोवनमृगेणानुयातः, तदेव कमलसरः सिष्णासुरुपागमत् ॥
॥ इति शुकस्य पितृमरणशोकः, जाबलिपुत्रहारीतस्य आगमनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.