Loading data... On slow networks this could take a few minutes.
100%
॥ अथ शबरसैन्यमुद्दिश्य शुकस्य चिन्ता, जरच्छबरेण कृत शकुनिकुलनाशः, वैशम्पायनस्य प्राणरक्षणम् ॥
आसीच्च मे मनसि - “अहो, मोहप्रायमेतेषां जीवितम्, साधुजनविगर्हितं च चरितम् । तथा हि - पुरुषपिशितोपहारे धर्मबुद्धिः । आहारः साधुजननिन्दितो मधुमांसादिः । शास्त्रं शिवारुतम् । समुपदेष्टारः सदसतां कौशिकाः । परिचिताः श्वानः । मित्राणि क्रूरकर्मसाधनानि धनूंषि । क्रूरात्मभिः शार्दूलैः सह संवासः । पशुरुधिरेण देवतार्चनम् । चौर्येण जीवनम् । भूषणानि भुजङ्गमणयः । वनगजमदैरङ्गरागः । यस्मिन्नेव कानने निवसन्ति, तदेवोत्खातमूलमशेषतः कुर्वते” इति चिन्तयत्येव मयि, स शबरसेनापतिरटवीभ्रमणसमुद्भवं श्रममपनिनीषुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामुपाविशत् । अन्यतमस्तु शबरयुवा ससंभ्रममवतीर्य, तस्मात् करयुगलपरिक्षोभिताम्भसः सरसो वैदूर्यद्रवानुकारि, अत्यच्छतया स्पर्शानुमेयमम्भः कमलिनीपत्रपुटेन, प्रत्ययोद्धृताश्च धौतपङ्कनिर्मलमृणालिकाः समुपाहरत् । आपीतसलिलश्च सेनापतिस्ता मृणालिकाः क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् ॥
एकतमस्तु जरच्छबरस्तस्मात् पुलिन्दवृन्दादनासादितहरिणपिशितः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत। अन्तरिते च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि सुचिरमारुरुक्षुस्तं वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुलानामसुभिः । किमिव हि दुष्करमकरुणानाम्? यतः स तमनेकसालतुङ्गमभ्रंकषशाखाशिखरमपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन् कांश्चित् अल्पदिवसजातान् गर्भच्छविपाटलाञ्छाल्मलीकुसुमशङ्काम् उपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंवर्तिकानुकारिणः, प्रतीकारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः शाखान्तरेभ्यः कोटरेभ्यश्च शुकशावकानग्रहीत् । अपगतातूंश्च कृत्वा क्षितावपातयत् ॥
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारकां दशमितस्ततो दिक्षु विक्षिपन्, पक्षसंपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं तदेव मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पापः क्रमेण शाखान्तरैः संचरमाणः, कोटरद्वारमागत्य जीर्णासितभुजङ्गभोगभीषणं प्रसार्य वामबाहुम्, अतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहारमुत्कूजन्तमाकृष्य तातमपगतासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वादायुषः कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तराले प्रवेशितशिरोधरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पवनवशसंपुञ्जितस्य महतः शुष्कपत्रराशेरुपरि पतितमात्मानमपश्यम् । अङ्गानि येन मे नाशीर्यन्त । यावच्चासौ तस्मात् तरुशिखरान्नावतरति, तावदहमवशीर्णपर्णसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः, पितरमुपरतमुत्सृज्य, नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञः, जन्मसहभुवा भयेनैव केवलमभिभूयमानः, किंचिदुपजाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुठन्नितस्ततः, कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः, नातिदूरवर्तिनस्तमालविटपिनो मूलदेशमविशम् ॥
अवतीर्य स तेन समयेन क्षितितलविप्रकीर्णान्संहृत्य ताञ्छुकशिशून् एकलतापाशसंयतानाबध्य, सेनापतिगतेनैव वर्त्मना तामेव दिशमगच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कहृदयमतिदूरपातादायासितशरीरं संत्रासजाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य, किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽवलोक्य, तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुमूलात् सलिलसमीपमुपसर्तुं प्रयत्नमकरवम् ॥
कादम्बरीसङ्ग्रहः
॥ इति शबरसैन्यमुद्दिश्य शुकस्य चिन्ता, जरच्छबरेण कृत शकुनिकुलनाशः, वैशम्पायनस्य प्राणरक्षणम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.