प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि। यतः स मां तदवस्थमालोक्य समुपजातदयः समीपवर्तिनमषिकुमारकम् अन्यतममब्रवीत् — ' अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवितव्यम् । तथा हि - अतिदवीयस्तया प्रपातस्य, अल्पावशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पतति । मुहुर्मुहुरत्युल्बणं श्वसिति । मुहुर्मुहुश्चञ्चुपुटं विवृणोति । न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न वियुज्यते, तावदेव गृहाणेमम् । अवतारय सलिलसमीपम् ' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीपमादाय स्वयं मां मुक्तप्रयत्नमुत्तानितमुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं च समुपजातनवीनप्राणमुपतटप्ररूढस्य नलिनीपलाशस्य जलशिशिरायां छायायां निधाय, समुचितमकरोत्स्नानविधिम् । अभिषेकावसाने च प्रत्यग्रभग्नैरुन्मुखो रक्तारविन्दैर्भगवते सवित्रे दत्त्वार्घमुदतिष्ठन् । आगृहीतधौतधवलवल्कल मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् ॥
अनतिदूरमिव गत्वा दिशि दिशि सदासंनिहितकुसुमफलैः तारकावर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमनवरतम् अतिधवलमुत्सृजद्भिः काननैरुपगूढम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिः उद्धूयमानधूमलेखाच्छलेन आबध्यमानस्वर्गमार्गगमनसोपानसेतुमिवोपलक्ष्यमाणम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, परिचितशाखामृगकराकृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, उपचर्यमाणातिथिवर्गम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितम् अनृतस्य, अश्रुतपूर्वम् अनङ्गस्य, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् ॥
यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेचु, चञ्चलता कदलीदलेषु न मनःसु ॥
तस्य चैवंविधस्य मध्यभागमण्डलमलङ्कुर्वाणस्य रक्ताशोकतरोरधश्छायायाम् उपविष्टम्, आयामिनीभिः पलितपाण्डुराभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिर्जटाभिरुपशोभमानम्, अतिचपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवातताभिः कण्ठनाडीभिः निरन्तरसंबद्धकंधरम्, स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, शंतनुमिव प्रियसत्यव्रतम्, भगवन्तं जाबालिमपश्यम् ॥
॥ इति सदयहारीतेन शुकरक्षणम्, जाबाल्याश्रमवर्णनम्, महर्षिजाबालिदर्शनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.