॥ अथ शुकं प्रति राज्ञः प्रश्नाः, शुकस्य कथारम्भः, विन्ध्याटवीवर्णनम् ॥
अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिदवनतपूर्वकायेन सितकञ्चुकावच्छन्नवपुषा कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत् — “ देव, देव्यो विज्ञापयन्ति — देवादेशात् एष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्या नीतः ” इत्यभिधाय गते च तस्मिन्, राजा वैशम्पायनमपृच्छत् — 'कच्चिदभिमतम् आस्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । स प्रत्युवाच — ' देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविः नीलपाटलः कषायमधुरः प्रकाममापीतो जम्बूफलरसः । हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तरक्तार्द्रमुक्ताफलात्विंषि खण्डितानि दाडिमबीजानि । नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते ' इति । एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत् — “आस्तां तावत्सर्वमेवदम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कार्त्स्न्येन । आत्मनो जन्म कस्मिन्देशे ? भवान्कथं जातः ? केन वा नाम कृतम् ? का माता ? कस्ते पिता ? कथं वेदानामागमः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासादिताः ? किं जन्मान्तरानुस्मरणम् ? उत वरप्रदानम् ? अथवा विहङ्गवेषधारी कश्चिच्छन्नं निवससि ? के वा पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धः ? कथं चाण्डालहस्तगमनम् ? इह वा कथमागमनम् ?” इति । वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् — “देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम् —
अस्ति पूर्वापरजलनिधिवेलावलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धितैः अतिविकचधवलकुसुमनिकरम् अत्युच्चतया तारागणमिव शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मधुमदोपरक्तकरलीकपोलकोमलच्छविना संचरद्वनदेवताचरणालक्तकरसञ्जतेनेव पल्लवप्रचयेन संछादिता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, कात्यायनीव प्रचलितखङ्गभीषणा रक्तचन्दनालंकृता च, कंचित्प्रलयवेलेव महावराहदंष्ट्रासमुखातधरणिमण्डला, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचिन्नारायणमूर्तिरिव तमालनीला, क्वचिद्विराटनगरीव कीचकशतावृता, विन्ध्याटवी नाम ॥
तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनतलाख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, दक्षिणाशामुखविशेषकम्य सुरलोकात् एकहुंकारनिपातितनहुषप्रकटप्रभावस्य भगवतो महामुनेः अगस्त्यस्य, भार्यया लोपामुद्रया स्वयमपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनामा पवित्रीकृतम्, सरिता च गोदावर्या परिगतम्, आश्रमपदमासीत् ॥
॥ इति शुकं प्रति राज्ञः प्रश्नाः, शुकस्य कथारम्भः, विन्ध्याटवीवर्णनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.