अथ चलति महीपतौ अन्योन्यम् अतिरभस-संचलन-चालित-अङ्गद-पत्रभङ्ग-मकर-कोटि-पाटित-अंशुक-पटानाम्, गमनप्रणामलालसानाम् अहमहमिकया, वक्षःस्थलप्रेङ्खोलितहारलतानाम्, उत्तिष्ठताम् आसीत् अतिमहान् संभ्रमो महीपतीनाम् । इतश्चेतश्च निष्पतन्तीनां स्कन्धदेशावसक्तचामराणां चामरग्राहिणीनां पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, प्रतीहारीणां च पुरः ससंभ्रमं समुत्सारितजनानां भवनप्रासादकुञ्जेषु उच्चरितप्रतिशब्दतया दीर्घतामुपगतेनालोकशब्देन, प्रचलितजनचरणशतसंक्षोभभयादपहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुंकृतेन, संक्षोभात् अतित्वरितपदप्रवृत्तैः अवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ॥
अथ विसर्जितराजलोकः ' विश्रम्यताम् ' इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्, वैशम्पायनः प्रवेश्यतामभ्यंन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताशेषभूषणश्च दिवसकर इव विगलितकिरणजालः समुपाहृतसमुचितव्यायामोपकरणो व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, तत्कालं विरलजनेऽपि राजकुले समुत्सारणाधिकारमुचितमाचरद्भिः दण्डिभिरुपदिश्यमानमार्गः, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापितस्फाटिकास्नानपीठाम्, एकान्तनिहितैरतिसुरभिगन्धसलिलपूर्णैः स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत् ॥
ततश्च तत्र निर्वर्तिताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धौतवाससी, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूजनश्च निष्क्रम्य देवगृहान्निवर्तिताग्निकार्यो विलेपनभूमौ मृगमदकर्पूरकुङ्कुमवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृताम्बरपरिवर्ती रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारम् अभिमतरसास्वादजातप्रीतिरवनिपो निर्वर्तयामास ॥
परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलः तस्मात् प्रमृष्टमणिकुट्टिमात् प्रदेशादुत्थाय, नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमवलम्ब्य, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकजवनिकापरिगतपर्यन्ततया स्फटिकमणिमयभित्तिबद्धमिवोपलक्ष्यमणम्, अतिसुरभिणा मृगनाभिपरिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्, उत्कीर्णसालभञ्जिकानिवहेन गन्धसलिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानं, कुसुमामोदवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोधाम्ना शयनेन सनाथीकृतवेदिकम् आस्थानमण्डपमयासीत् । तत्र च शयनतलनिषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खङ्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणः तत्कालोचितदर्शनैः अवनिपतिभिः अमात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् ' अन्तःपुराद्वैशम्पायनमादायागच्छ ' इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।
॥ इति नृपगमनसमये संरम्भः, राज्ञः स्नानादिदिनचर्या, आस्थानमण्डपगमनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.