॥ अथ चाण्डालकन्यका वर्णनम्, शुकस्य जयशब्दः, राज्ञः विस्मयः, शुकभाषणशक्तिविषये अमात्यस्योक्तिः ॥
आलोक्य च सा दूरस्थितैव वेणुलतामादाय नरपतिप्रबोधनार्थम् असकृत् सभाकुट्टिममाजघान ; येन सकलमेव तद्राजकमेकपदे तेन वेणुलताध्वनिना युगपदावलितवदनम् अवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् ॥
अवनिपतिस्तु दूरात् ' आलोकय ' इत्यभिधाय प्रतीहार्या निर्दिश्यमाना ताम् अनवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना
पुरुषेणाधिष्ठितपुरोभागाम्, आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितं पञ्जरमुद्वहता चाण्डालदारकेणानुगम्यमानाम्, आगुल्फावलम्बिना नीलकञ्चुकेनाच्छन्नशरीराम्, उपरि रक्तांशुकरचितावगुण्ठनाम्, मेखलादाम्ना परिगतजघनस्थलाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण कृतकण्ठग्रहाम्, श्रियमिव हस्तस्थितकमलशोभाम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपरूढयौवनामतिशयरूपाकृतिमनिमेषलोचनो ददर्श ॥
समुपजातविस्मयस्य चाभून्मनसि महीपतेः — “अहो विधातुरस्थाने रूपनिष्पादनप्रयत्नः । तथा हि - यदि नाम इयम् आत्मरूप-उपहसित-अशेष-रूप-संपद्-उत्पादिता, किमर्थम् अपगतस्पर्शे कृतं कुले जन्म । मन्ये च, मातङ्गजाति-स्पर्श-दोष-भयात् अस्पृशतेयम् उत्पादिता प्रजापतिना; अन्यथा कथम् इयमक्लिष्टता लावण्यस्य । न हि करतलस्पर्शलेशितानाम् अवयवानामीदृशी भवति कान्तिः” इत्येवमादि चिन्तयन्तमेव राजानम् ईषदवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ; अब्रवीच्च — ' देव, विदितसकलशास्त्रार्थः, वेदिता गीतश्रुतीनाम्, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनाम् अपरिमितानां सुभाषितानाम् अध्येता स्वयं च कर्ता, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः; सर्वरत्नानां चोदधिरिव देवो भाजनमिति कृत्वा एनम् आदाय अस्मत्स्वामिदुहिता देवपादमूलमायाता । तदयमात्मीयः क्रियताम् ' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार ॥
अपसृते च तस्मिन्, स विहङ्गगराजो राजाभिमुखो भूत्वा समुन्नमय्य दक्षिणं चरणम् अतिस्पष्टवर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यामिमाम् आर्यां पपाठ —
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥
राजा तु तां श्रुत्वा संजातविस्मयः सहर्षम् आसन्नवर्तिनम् अतिवयसम् अग्रजन्मानम् अखिलमन्त्रिमण्डले प्रधानम् अमात्यं कुमारपालितनामानम् अब्रवीत् — “ श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता ? प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागाम् अभिव्यक्तमात्रानुस्वारसंस्कारयोगविशेषसंयुक्तपरिस्फुटाक्षरां गिरम् उदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि — अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दम् अयम् आर्यां मामुद्दिश्य अतिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारनिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं महच्चित्रम् ” इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनो नृपमवादीत् — “ देव, किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहंगमविशेषा यथाश्रुतां वाचमुच्चारयन्ति इति अधिगतमेव देवेन । तत्रापि अन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यत् — एतेषामपि पुरा पुरुषाणामिव अतिपरिस्फुटाभिधाना वागासीत् । अग्निशापात् तु अपरिस्फुटालापता शुकानामुपजाता, करिणां च जिह्वापरिवृत्तिः” इति । एवमुञ्चारयत्येव तस्मिन्, अशिशिरकिरणम् अम्बरतलस्य मध्यम् आरूढम् आवेदयन् नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ।
॥ इति चाण्डालकन्यका वर्णनम्, शुकस्य जयशब्दः, राज्ञः विस्मयः, शुकभाषणशक्तिविषये अमात्यस्योक्तिः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.