॥ अथ कथामुखम् ॥
1. आसीत् अशेष-नरपति-शिरः-समभ्यर्चित-शासनः पाकशासन इवापरः, चतुरुदधि-माला-मेखलाया भुवो भर्ता, प्रताप-अनुराग-अवनत-समस्त-सामन्त-चक्रः, कर्ता महाश्चर्याणाम्‌, आहर्ता क्रतूनाम्‌, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्‌, कुलभवनं गुणानाम्‌, आश्रयो रसिकानाम्‌, राजा शुद्रको नाम ॥
2. यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वसता, सर्वदेवमयस्य प्रकटित-विश्वरूप-आकृतेः अनुकरोति भगवतो नारायणस्य ॥
3. तस्य च राज्ञो जल-अवगाहन-आयात-जयङ्कुञ्जर-कुम्भ-सिन्दूर-सन्ध्यायमान-सलिलया वेत्रवत्या सरिता परिगता विदिशा अभिधाना नगरी राजधान्यासीत् ॥
4. स तस्याम् अवजित-अशेष-भुवन-मण्डलतया विगत-राज्य-चिन्ता-भार-निर्वृतः, वलयमिव लीलया भुजेन भुवनभारम् उद्वहन्‌, अमरगुरुमपि प्रज्ञया उपहसद्भिः अनेक-कुल-क्रम-आगतैः असकृद्-आलोचित-नीति-शास्त्र-निर्मल-मनोभिः अलुब्धैः स्निग्धैः प्रबुद्धैः अमात्यैः परिवृतः, समान-वयो-विद्या-अलङ्कारैः अग्राम्य-परिहास-कुशलैः इङ्गिताकार-वेदिभिः केसरि-किशोरकैः इव विक्रमैकरसैः अपि विनयव्यवहारिभिः आत्मनः प्रतिबिम्बैः इव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखम् अतिचिरम् उवास । तस्य च अतिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणम् आकलयतः, प्रथमे वयसि वर्तमानस्यापि, रूपवतो अपि, संतानार्थिभिः अमात्यैः अपेक्षितस्यापि, वनिता-व्यतिकरस्य उपरि द्वेष इव आसीत् | सत्यपि लावण्यवति विनयवति अन्वयवति हृदयहारिणि च अवरोधजने, स कदाचित् स्वयम् आरब्धमृदङवाद्यः संगीतकप्रसङ्गेन, कदाचित् मृगयाव्यापारेण, कदाचित् काव्य-प्रबन्ध-रचनेन, कदाचिच्छास्त्रालापेन, कदाचिद् आख्यानक-आख्यायिका-इतिहास-पुराण-आकर्णनेन, कदाचिद् आलेख्यविनोदेन, कदाचिद् वीणया, कदाचिद् दर्शन-आगत-मुनिजन-चरण-शुश्रूषया, कदाचिद् अक्षरच्युतक-मात्राच्युतक-बिन्दुमती-गूढचतुर्थपाद-प्रहेलिका-प्रदानादिभिः, वनितापरङ्मुखः सुहृत्परिवृतो दिवसम् अनयत्‌ । यथैव च दिवसम्‌, एवम् आरब्ध-विविध-क्रीडा-परिहास-चतुरैः सुहृद्भिः उपेतो निशाम् अनैषीत्‌ ॥
एकदा तु नातिदूरोदिते भगवति सहस्रमरीचिमालिनि राजानम् आस्थानमण्डपगतम् अङ्गनाजनविरुद्धेन वामपार्श्व-अवलम्बिना कौक्षेयकेण भीषणरमणीयाकृतिः प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-कर-कमला सविनयम् अब्रवीत्‌ — “ देव, द्वारस्थिता सुरलोकम् आरोहतः त्रिशङ्कुरिव कुपित-शतमख-हुंकार-निपातिता राजलक्ष्मीः दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति — ' सकल-भुवनतल-सर्वरत्नानाम् उदधिरिव एकभाजनं देवः । विहङ्गमश्चायम् आश्चर्यभूतो निखिलभुवनतलरत्नम् इति कृत्वा देवपादमूलम् आदाय आगताहम् इच्छामि देवदर्शनसुखम् अनुभवितुम्‌ ' इति । एतदाकर्ण्य देवः प्रमाणम्‌ ” इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि ' को दोषः । प्रवेश्यताम् ' इत्यादिदेश ॥
अथ प्रतीहारी नरपतिवचनानन्तरम् उत्थाय तां मातङ्गकुमारीं प्रावेशयत्‌ । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनम्‌, अवलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य, गगनसिन्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्य अधस्तात् इन्दुकान्तमणिपर्यङ्किकानिषण्णम्‌, उद्धूयमानकनकदण्डचामरकलापम्‌, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामरपवनप्रनर्तितदशे दुकूले वसानम्‌, अतिसुरभि-चन्दन-अनुलेपन-धवलित-उरःस्थलम्‌, उपरिविन्यस्तकुङ्कमस्थासकम्‌, अमलकलधौतपट्टायतम् अष्टमीचन्द्रशकलाकारम् ऊर्णासनाथं ललाटदेशमुद्वहन्तम्‌, अपरिमितपरिवारजनमप्यद्वितीयम्‌, आविरतप्रवृत्तदानमप्यमदम्‌, राजानमद्राक्षीत्‌ ॥
॥ इति कथामुखम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.